वांछित मन्त्र चुनें

यु॒वं भगं॒ संभ॑रतं॒ समृ॑द्धमृ॒तं वद॑न्तावृ॒तोद्ये॑षु। ब्रह्म॑णस्पते॒ पति॑म॒स्यै रो॑चय॒चारु॑ संभ॒लो व॑दतु॒ वाच॑मे॒ताम् ॥

मन्त्र उच्चारण
पद पाठ

युवम् । भगम् । सम् । भरतम् । सम्ऽऋध्दम् । ऋतम् । वदन्तौ । ऋतऽउद्येषु । ब्रह्मण: । पते । पतिम् । अस्यै । रोचय । चारु । सम्ऽभल: । वदतु । वाचम् । एताम् ॥१.३१॥

अथर्ववेद » काण्ड:14» सूक्त:1» पर्यायः:0» मन्त्र:31


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

विवाह संस्कार का उपदेश।

पदार्थान्वयभाषाः - [हे वधू-वर !] (ऋतोद्येषु) सत्यवचनों के बीच (ऋतम्) सत्य (वदन्तौ) बोलते हुए (युवम्) तुमदोनों (समृद्धम्) अधिक सम्पत्तिवाले (भगम्) ऐश्वर्य को (सम्) मिलकर (भरतम्) धारणकरो। (ब्रह्मणः पते) हे वेद के रक्षक [परमेश्वर !] (अस्यै) इस [वधू] के लिये (पतिम्) पति को (रोचय) आनन्दित कर−(एताम् वाचम्) इस वचन को (संभलः) यथार्थवक्तापुरुष (चारु) मनोहर रीति से (वदतु) बोले ॥३१॥
भावार्थभाषाः - विद्वान् लोग परमेश्वरसे प्रार्थना करके आशीर्वाद देवें कि यह दोनों स्त्री-पुरुष अपनी प्रतिज्ञाओंमें दृढ़ रहकर सम्पत्ति और ऐश्वर्य प्राप्त करके सदा प्रसन्न रहें॥३१॥
टिप्पणी: ३१−(युवम्) युवां वधूवरौ (भगम्) ऐश्वर्यम् (सम्) मिलित्वा (भरतम्) धारयतम् (समृद्धम्) बुहुवृद्धियुक्तम् (ऋतम्) सत्यम् (वदन्तौ) कथयन्तौ (ऋतोद्येषु)वद-क्यपि। सत्यकथनेषु (ब्रह्मणः) वेदस्य (पते) रक्षक परमेश्वर (पतिम्)भर्त्तारम् (अस्यै) वधूहिताय (रोचय) प्रसादय (चारु) यथा तथा, मनोहररीत्या (संभलः) सम्यग्वक्ता (वाचम्) वाणीम् (एताम्) ॥