वांछित मन्त्र चुनें

सू॒र्याया॑वह॒तुः प्रागा॑त्सवि॒ता यम॒वासृ॑जत्। म॒घासु॑ ह॒न्यन्ते॒ गावः॒ फल्गु॑नीषु॒व्युह्यते ॥

मन्त्र उच्चारण
पद पाठ

सूर्याया: । वहतु । प्र । अगात् । सविता । यम् । अवऽअसृजत् । मघासु । हन्यन्ते । गाव: । फल्गुनीषु । वि । उह्यते ॥१.१३॥

अथर्ववेद » काण्ड:14» सूक्त:1» पर्यायः:0» मन्त्र:13


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

विवाह संस्कार का उपदेश।

पदार्थान्वयभाषाः - (सूर्यायाः) प्रेरणाकरनेवाली [वा सूर्य की चमक के समान तेजवाली] कन्या का (वहतुः) दाय [यौतुक, कन्याको दिया पदार्थ] (प्र अगात्) सन्मुख चले, (यम्) जिस [पदार्थ] को (सविता)जन्मदाता पिता (अव असृजत्) दान करे। (मघासु) सत्कार क्रियाओं में (गावः) वाचाएँ (हन्यन्ते) चलें, और वह [वधू] (फल्गुनीषु) सफल क्रियाओं के बीच (वि उह्यते) लेजाई जावे ॥१३॥
भावार्थभाषाः - पिता को योग्य है किविवाह के समय कन्या को स्त्रीधन अर्थात् योग्य वस्त्र, अलंकार, धन दान करे और सबलोग आशीर्वाद बोल कर उस क्रिया को सफल करें ॥१३॥
टिप्पणी: १३−(सूर्यायाः) प्रेरिकायाः।सूर्यदीप्तिवत्तेजोवत्याः कन्यायाः (वहतुः) एधिवह्योश्चतुः। उ० १।७७। वहप्रापणे−चतुः। विवाहकाले कन्यायै देयः पदार्थः। विवाहः। वहनकारणम् (प्र अगात्)प्रकर्षेण गच्छतु (सविता) जनकः। पिता (यम्) पदार्थम् (अव असृजत्) दत्तवान् (मघासु) मह पूजायाम्-अच् अर्शआद्यच्। मघं धननाम-निघ० २।१०। सत्कारवतीषुक्रियासु। धनवतीषु क्रियासु (हन्यन्ते) हन हिंसागत्योः। गम्यन्ते। प्राप्यन्ते (गावः) वाचः (फल्गुनीषु) फलेर्गुक् च। उ० ३।५६। फल निष्पत्तौ-उनन्, गुक् चङीप्। सफलक्रियासु (व्युह्यते) विविधं नीयते ॥