वांछित मन्त्र चुनें

अ॑होरा॒त्रैर्विमि॑तं त्रिं॒शद॑ङ्गं त्रयोद॒शं मासं॒ यो नि॒र्मिमी॑ते। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥

मन्त्र उच्चारण
पद पाठ

अहोरात्रै: । विऽमितम् । त्रिंशत्ऽअङ्गम् । त्रय:ऽदशम् । मासम् । य: । नि:ऽमिमीते । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्ष‍िणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.८॥

अथर्ववेद » काण्ड:13» सूक्त:3» पर्यायः:0» मन्त्र:8


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमात्मा और जीवात्मा का उपदेश।

पदार्थान्वयभाषाः - (यः) जो [परमेश्वर] (अहोरात्रैः) दिन और रातों के साथ (विमितम्) नापे गये, (त्रिंशदङ्गम्) तीस अङ्गोंवाले [अर्थात् ऋग्वेद आदि चारों वेद+ब्राह्मण आदि चारों वर्ण+ब्रह्मचर्य आदि चार आश्रम+अणिमा आदि आठ ऐश्वर्य+पृथिवी आदि पाँच भूत+उछालना, गिराना, सकोड़ना, फैलाना और चलना पाँच कर्म जिसमें हैं] और (त्रयोदशम्) तेरह पदार्थवाले [अर्थात् कान, त्वचा, नेत्र, जीभ, नासिका−पाँच ज्ञानेन्द्रिय, गुदा, उपस्थ वा मूत्रमार्ग, हाथ, पाँव, वाणी−पञ्च कर्मेन्द्रिय, मन बुद्धि और जीव के स्थान] (मासम्) नापने योग्य [संसार] को (निर्मिमीते) बनाता है। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये.... [मन्त्र १] ॥८॥
भावार्थभाषाः - जिस परमेश्वर ने खोजने योग्य संसार में मनुष्य के सुख के लिये वेद आदि और इन्द्रिय आदि पदार्थ रचे हैं, हे मनुष्यो ! उसी को इष्टदेव जानकर पुरुषार्थी बनकर उन्नति करो ॥८॥
टिप्पणी: ८−(अहोरात्रैः) रात्रिदिवसैः (विमितम्) परिमितम् (त्रिंशदङ्गम्) त्रिंशदङ्गानि यस्य तम्। ऋग्वेदादयश्चत्वारो वेदा ब्राह्मणादयश्चत्वारो वर्णा ब्रह्मचर्यादयश्चत्वार आश्रमा अणिमादयोऽष्टविभूतय उत्क्षेपणावक्षेपणाकुञ्चन-प्रसारणगमनानीति पञ्चकर्माणि-इति त्रिंशदङ्गानि (त्रयोदशम्) बहुव्रीहौ संख्येये डजबहुगणात्। पा० ५।४।७३। इति त्रयोदशन्-डच्। त्रयोदशपदार्था यस्मिंस्तम्। श्रोत्रत्वक्चक्षुर्जिह्वानासिकापञ्चज्ञानेन्द्रियाणि, गुदोपस्थहस्तपादवाणीपञ्चकर्मेन्द्रियाणि मनोबुद्धिजीवाश्चेति त्रयोदशपदार्थाः (मासम्) मसी परिमाणे च। घञ्। मस्यते परिमीयते यः स मासस्तं संसारम् (निर्मिमीते) रचयति ॥