वांछित मन्त्र चुनें

त्वम॑ग्ने॒ क्रतु॑भिः के॒तुभि॑र्हि॒तो॒र्कः समि॑द्ध॒ उद॑रोचथा दि॒वि। किम॒भ्यार्चन्म॒रुतः॒ पृश्नि॑मातरो॒ यद्रोहि॑त॒मज॑नयन्त दे॒वाः। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥

मन्त्र उच्चारण
पद पाठ

त्वम् । अग्ने । ऋतुऽभि: । केतुऽभि: । हित: । अर्क: । सम्ऽइध्द: । उत् । अरोचथा: । दिवि । किम् ।अभि । आर्चन् । मरुत: । पृश्निऽमातर: । यत् । रोहितम‌् । अजनयन्त । देवा: । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्ष‍िणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.२३॥

अथर्ववेद » काण्ड:13» सूक्त:3» पर्यायः:0» मन्त्र:23


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमात्मा और जीवात्मा का उपदेश।

पदार्थान्वयभाषाः - (अग्ने) हे प्रकाशस्वरूप परमेश्वर ! (त्वम्) तू (क्रतुभिः) अपने कर्मों से और (केतुभिः) बुद्धियों से (हितः) हितकारी होकर (समिद्धः) प्रकाशित (अर्कः) सूर्य के समान (दिवि) प्रत्येक व्यवहार में (उत्) ऊपर (अरोचथाः) चमका है। (प्रश्निमातरः) पूँछने योग्य वेदवाणी को माता समान मान करनेवाले (मरुतः) शूर पुरुषों ने (किम्) किसको [अर्थात् ब्रह्म को ही] (अभि) सब ओर से (आर्चन्) पूजा है, (यत्) जब (रोहितम्) सबके उत्पन्न करनेवाले [परमेश्वर] को (देवाः) [उसके] उत्तम गुणों ने (अजनयन्त) प्रकट किया है। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये.... [मन्त्र १] ॥२३॥
भावार्थभाषाः - वेदवेत्ता पराक्रमी लोग सर्वहितकारी परमेश्वर को उसके गुण कर्म स्वभाव से जानकर सदा आनन्द पाते हैं ॥२३॥इस मन्त्र का चौथा पाद ऊपर मन्त्र १२ में आ चुका है। इस मन्त्र का मिलान करो-अ० १३।१।३ ॥
टिप्पणी: २३−(त्वम्) (अग्ने) प्रकाशस्वरूप परमेश्वर (क्रतुभिः) कर्मभिः-निघ० २।१। (केतुभिः) प्रज्ञाभिः-निघ० ३।९। (हितः) उपकारी (अर्कः) सूर्यः (समिद्धः) प्रदीप्तः (उत्) उत्तमतया (अरोचथाः) दीप्तवानसि (दिवि) व्यवहारे (किम्) प्रश्ने। ब्रह्मैवेत्यर्थः (आर्चन्) पूजितवन्तः (मरुतः) अ० १।२०।१। शूरपुरुषाः (पृश्निमातरः) अ० १।१३।१३। प्रच्छ ज्ञीप्सायाम्-नि। प्रष्टव्या वेदवाणी मातृवत् सत्करणीया येषां ते। अन्यत् पूर्ववत्-म० १२ ॥