वांछित मन्त्र चुनें

वि य और्णो॑त्पृथि॒वीं जाय॑मान॒ आ स॑मु॒द्रमद॑धाद॒न्तरि॑क्षे। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥

मन्त्र उच्चारण
पद पाठ

वि । य: । और्णोत् । पृथिवीम् । जायमान: । आ । समुद्रम् । अदधात् । अन्तरिक्षे । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्ष‍िणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.२२॥

अथर्ववेद » काण्ड:13» सूक्त:3» पर्यायः:0» मन्त्र:22


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमात्मा और जीवात्मा का उपदेश।

पदार्थान्वयभाषाः - (यः) जिस (जायमानः) प्रत्यक्ष होते हुए [परमेश्वर] ने (पृथिवीम्) पृथिवी को (वि और्णोत्) फैलाया, और (समुद्रम्) समुद्र को (अन्तरिक्षे) अन्तरिक्ष में (आ) सब ओर से (अदधात्) ठहराया। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये.... [मन्त्र १] ॥२२॥
भावार्थभाषाः - विद्वान् लोग परमात्मा को पृथिवी आदि लोकों का कर्ता साक्षात् करके धर्म में सदा उन्नति करें ॥२२॥
टिप्पणी: २२−(यः) परमेश्वरः (वि और्णौत्) विस्तारितवान् (पृथिवीम्) (जायमानः) प्रादुर्भवन् (आ) समन्तात् (समुद्रम्) जलौघम् (अदधात्) अस्थापयत् (अन्तरिक्षे) ॥