वांछित मन्त्र चुनें

अ॑ष्ट॒धा यु॒क्तो वह॑ति॒ वह्नि॑रु॒ग्रः पि॒ता दे॒वानां॑ जनि॒ता म॑ती॒नाम्। ऋ॒तस्य॒ तन्तुं॒ मन॑सा मि॒मानः॒ सर्वा॒ दिशः॑ पवते मात॒रिश्वा॑। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥

मन्त्र उच्चारण
पद पाठ

अष्टऽअधा । युक्त: । वहति । वह्नि: । उग्र: । पिता । देवानाम् । जनिता । मतीनाम् । ऋतस्य । तन्तुम् । मनसा । मिमान: । सर्वा: । दिश: । पवते । मातरिश्वा । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्ष‍िणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.१९॥

अथर्ववेद » काण्ड:13» सूक्त:3» पर्यायः:0» मन्त्र:19


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमात्मा और जीवात्मा का उपदेश।

पदार्थान्वयभाषाः - (अष्टधा) आठ प्रकार से [यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यान और समाधि−योग के आठ अङ्गों द्वारा] (युक्तः) ध्यान किया गया, (उग्रः) प्रचण्ड (वह्निः) ले चलनेवाला, (देवानाम्) गतिमान् [पृथिवी आदि] लोकों का (पिता) पिता [रक्षक] और (मतीनाम्) बुद्धिमानों का (जनिता) उत्पन्न करनेवाला [परमेश्वर, संसार को] (वहति) ले चलता है। (ऋतस्य) सत्यज्ञान के (तन्तुम्) ताँते [श्रेणी] को (मनसा) अपने विज्ञान से (मिमानः) नापता हुआ, (मातरिश्वा) आकाश में गतिवाला [परमेश्वर] (सर्वाः) सब (दिशः) दिशाओं में (पवते) चलता है [व्यापता है]। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये..... [म० १] ॥१९॥
भावार्थभाषाः - जो परमेश्वर सर्वस्वामी, सर्वान्तर्यामी, सर्वनियन्ता है, सब मनुष्य योग द्वारा उसकी उपासना करके आनन्द पावें ॥१९॥
टिप्पणी: १९−(अष्टधा) अष्टप्रकारेण। यमनियमासनप्राणायामप्रत्याहरधारणाध्यानसमाधयोऽष्टावङ्गानि−योगदर्शने २।२९। (युक्तः) ध्यातः (वहति) गमयति लोकान् (वह्निः) वाहकः (उग्रः) प्रचण्डः (पिता) रक्षकः (देवानाम्) गतिमतां पृथिव्यादिलोकानाम् (जनिता) उत्पादकः (मतीनाम्) मेधाविनाम्-निघ० ३।१५। (ऋतस्य) सत्यज्ञानस्य (तन्तुम्) श्रेणिम्। विस्तारम् (मनसा) विज्ञानेन (मिमानः) मानं कुर्वाणः (सर्वाः) (दिशः) (पवते) गच्छति-निघ० २।१४। व्याप्नोति (मातरिश्वा) मातरि आकाशे श्वयति गच्छति व्याप्नोति यः परमेश्वरः ॥