अ॒यं स दे॒वो अ॒प्स्वन्तः स॒हस्र॑मूलः पुरु॒शाको॒ अत्त्रिः॑। य इ॒दं विश्वं॒ भुव॑नं॒ जजा॑न। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
अयम् । स: । देव: । अप्ऽसु । अन्त: । सहस्रऽमूल: । पुरुऽशाक: । अत्त्रि: । य: । इदम् । विश्वम् । भुवनम् । जजान । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् । ॥३.१५॥
पण्डित क्षेमकरणदास त्रिवेदी
परमात्मा और जीवात्मा का उपदेश।
