स वरु॑णः सा॒यम॒ग्निर्भ॑वति॒ स मि॒त्रो भ॑वति प्रा॒तरु॒द्यन्। स स॑वि॒ता भू॒त्वान्तरि॑क्षेण याति॒ स इन्द्रो॑ भू॒त्वा त॑पति मध्य॒तो दिव॑म्। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च पाशान् ॥
स: । वरुण: । सायम् । अग्नि: । भवति । स: । मित्र: । भवति । प्रात: । उत्ऽयन् । स: । सविता । भूत्वा । अन्तरिक्षेण । याति । य: । इन्द्र: । भूत्वा । तपति । मध्यत: । दिवम् । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.१३॥
पण्डित क्षेमकरणदास त्रिवेदी
परमात्मा और जीवात्मा का उपदेश।
