वांछित मन्त्र चुनें

बृ॒हद॒न्यतः॑ प॒क्ष आसी॑द्रथन्त॒रम॒न्यतः॒ सब॑ले स॒ध्रीची॑। यद्रोहि॑त॒मज॑नयन्त दे॒वाः। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥

मन्त्र उच्चारण
पद पाठ

बृहत् । अन्यत: । पक्ष: । आसीत् । रथम्ऽतरम् । अन्यत: । सबले इति सऽबले । सध्रीची इति । यत् । रोहितम् । अजनयन्त । देवा: । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्ष‍िणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.१२॥

अथर्ववेद » काण्ड:13» सूक्त:3» पर्यायः:0» मन्त्र:12


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमात्मा और जीवात्मा का उपदेश।

पदार्थान्वयभाषाः - (बृहत्) बृहत् [बड़ा आकाश] (अन्यतः) एक ओर से (पक्षः) [उस परमेश्वर का] ग्रहण सामर्थ्य (आसीत्) था, और (रथन्तरम्) रथन्तर [रमणीय पदार्थों द्वारा पार लगानेवाला जगत्] (अन्यतः) दूसरी ओर से−[दोनों] (सबले) तुल्य बलवाले और (सध्रीची) साथ-साथ गतिवाले [थे], (यत्) जब (रोहितम्) सबके उत्पन्न करनेवाले [परमेश्वर] को (देवाः) [उसके] उत्तम गुणों ने (अजनयन्त) प्रकट किया। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये... [म० १] ॥१२॥
भावार्थभाषाः - परस्पर मिले हुए और बहुत बड़े आकाश और जगत् परमात्मा के सामर्थ्य से वर्तमान हैं, इस बात को उसके गुणों से साक्षात् करके आत्मोन्नति करो ॥१२॥
टिप्पणी: १२−(बृहत्) आकाशम् (अन्यतः) एकस्मात् प्रदेशात् (पक्षः) ग्रहणसामर्थ्यम् (आसीत्) (रथन्तरम्) म० ११। रमणीयैः पदार्थैस्तारकं जगत् (अन्यतः) (सबले) समानबलयुक्ते (सध्रीची) संगच्छमाने (यत्) यदा (रोहितम्) सर्वोत्पादकं परमेश्वरम् (अजनयन्त) प्रादुष्कृतवन्तः (देवाः) श्रेष्ठगुणाः ॥