यत्ते॑ च॒न्द्रं क॑श्यप रोच॒नाव॒द्यत्सं॑हि॒तं पु॑ष्क॒लं चि॒त्रभा॑नु॒। यस्मि॒न्त्सूर्या॒ आर्पि॑ताः स॒प्त सा॒कम्। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
यत् । ते । चन्द्रम् । कश्यप । रोचनऽवत् । यत् । सम्ऽहितम् । पुष्कलम् । चित्रऽभानु । यस्मिन् । सूर्या: । आर्पिता: । सप्त । साकम् । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.१०॥
पण्डित क्षेमकरणदास त्रिवेदी
परमात्मा और जीवात्मा का उपदेश।
