वांछित मन्त्र चुनें

य इ॒मे द्यावा॑पृथि॒वी ज॒जान॒ यो द्रापिं॑ कृ॒त्वा भुव॑नानि॒ वस्ते॑। यस्मि॑न्क्षि॒यन्ति॑ प्र॒दिशः॒ षडु॒र्वीर्याः प॑त॒ङ्गो अनु॑ वि॒चाक॑शीति। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥

मन्त्र उच्चारण
पद पाठ

य:। इमे इति । द्यावापृथिवी । इति । जजान । य: । द्रापिम् । कृत्वा । भुवनानि। वस्ते । यस्मिन् । क्षियन्ति । प्रऽदिश: । षट् । उर्वी: । या: । पतङ् । अनु । विऽचाकशीति । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्ष‍िणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.१॥

अथर्ववेद » काण्ड:13» सूक्त:3» पर्यायः:0» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमात्मा और जीवात्मा का उपदेश।

पदार्थान्वयभाषाः - (यः) जिस [परमेश्वर] ने (इमे) इन दोनों (द्यावापृथिवी) सूर्य और पृथिवी को (जजान) उत्पन्न किया है, (यः) जो (भुवनानि) सत्तावाले [लोकों] को (द्रापिम्) वस्त्र [समान] (कृत्वा) बनाकर (वस्ते) ओढ़ता है। (यस्मिन्) जिस [परमेश्वर] में (षट्) छह [पूर्वादि चार और ऊपर नीचेवाली] (उर्वीः) चौड़ी (प्रदिशः) दिशाएँ (क्षियन्ति) रहती हैं, (याः अनु) जिनकी ओर (पतङ्गः) ऐश्वर्यवान् [परमेश्वर] (विचाकशीति) चमकता चला जाता है। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये (एतत्) यह (आगः) अपराध है, [कि] (यः) जो मनुष्य (एवम्) ऐसे (विद्वांसम्) विद्वान् (ब्राह्मणम्) ब्राह्मण [वेदज्ञाता] को (जिनाति) सताता है। (रोहित) हे सर्वोत्पादक [परमेश्वर !] [उस शत्रु को] (उद् वेपय) कंपा दे, (प्र (क्षिणीहि) नाश कर दे, (ब्रह्मज्यस्य) ब्रह्मचारी के सतानेवाले के (पाशान्) फन्दों को (प्रति मुञ्च) बाँध दे ॥१॥
भावार्थभाषाः - परमेश्वर सर्वोत्पादक, सर्वव्यापक, सर्वशासक है, वेद का उपदेश रोकनेवाला पुरुष ईश्वरव्यवस्था से अविद्या के कारण कष्ट उठाता है। हे मनुष्यो ! तुम उस जगत्पिता को अपना उपास्य देव जानो ॥१॥
टिप्पणी: १−(यः) परमेश्वरः (इमे) दृश्यमाने (द्यावापृथिवी) प्रकाशाप्रकाशमानलोकौ (जजान) जनयामास (यः) (द्रापिम्) द्रा कुत्सायां गतौ-क्विप्+पा रक्षणे-कि। द्रायाः कुत्साया गते रक्षकं वस्त्रादिकम् (कृत्वा) विधाय (भुवनानि) सत्तात्मकानि लोकजातानि (वस्ते) आच्छादयति (यस्मिन्) परमेश्वरे (क्षियन्ति) निवसन्ति (प्रदिशः) प्रकृष्टा दिशः (षट्) ऊर्ध्वाधःसहिताः पूर्वादयः (उर्वीः) (विस्तृताः) (याः) (पतङ्गः) पत ऐश्वर्ये-अङ्गच्। ऐश्वर्यवान् (अनु) प्रति (विचाकशीति) अ० ९।९।˜२०। काशृ दीप्तौ यङ्लुकि रूपम्। विविधं भृशं प्रकाशते (तस्य) चतुर्थ्यर्थे बहुलं छन्दसि। पा० २।३।६२। इति षष्ठी। तस्मै (देवस्य) देवाय (क्रुद्धस्य) क्रुद्धाय (एतत्) वक्ष्यमाणम् (आगः) इण आगोऽपराधे च। उ० ४।२१२। इण् गतौ-असुन्, आगादेशः। अपराधः (यः) मनुष्यः (एवम्) तथाभूतम् (विद्वांसम्) जानन्तम् (ब्राह्मणम्) वेदज्ञातारम् (जिनाति) ज्या वयोहानौ। हिनस्ति (उत्) उत्कर्षेण (वेपय) कम्पय (रोहित) हे सर्वोत्पादक परमेश्वर (प्र) (क्षिणीहि) नाशय (ब्रह्मज्यस्य) ब्रह्मचारिणो हिंसकस्य (प्रतिमुञ्च) बधान (पाशान्) बन्धान् ॥