वांछित मन्त्र चुनें

पृ॑थिवी॒प्रो म॑हि॒षो नाध॑मानस्य गा॒तुरद॑ब्धचक्षुः॒ परि॒ विश्वं॑ बभूव। विश्वं॑ सं॒पश्य॑न्त्सुवि॒दत्रो॒ यज॑त्र इ॒दं शृ॑णोतु॒ यद॒हं ब्रवी॑मि ॥

मन्त्र उच्चारण
पद पाठ

पृथिवीऽप्र: । महिष: । नाधमानस्य । गातु: । अदब्धऽचक्षु: । परि । विश्वम् । बभूव । विश्वम् । सम्ऽपश्यन् । सुऽविदत्र: । यजत्र: । इदम् । शृणोतु । यत् । अहम् । ब्रवीमि ॥२.४४॥

अथर्ववेद » काण्ड:13» सूक्त:2» पर्यायः:0» मन्त्र:44


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमात्मा और जीवात्मा के विषय का उपदेश।

पदार्थान्वयभाषाः - (पृथिवीप्रः) पृथिवी का भरपूर करनेवाला, (महिषः) महान्, (नाधमानस्य) प्रार्थना करते हुए पुरुष के (गातुः) मार्ग, (अदब्धचक्षुः) बे-चूक दृष्टिवाले [परमेश्वर] ने (विश्वम्) सबको (परिबभूव) घेर लिया है। (विश्वम्) सबको (संपश्यन्) निहारता हुआ, (सुविदत्रः) बड़ा लाभ पहुँचानेवाला (यजत्रः) सर्वपूजनीय [परमेश्वर] (इदम्) इस [वचन] को (शृणोतु) सुने, (यत्) जो (अहम्) मैं (ब्रवीमि) कहता हूँ ॥४४॥
भावार्थभाषाः - सर्वान्तर्यामी, भक्तवत्सल मार्गदर्शक परमात्मा की आराधना से मनुष्य तत्त्वदर्शी, परोपकारी होकर परस्पर सुख बढ़ावें ॥४४॥
टिप्पणी: ४४−(पृथिवीप्रः) भूमिपूरकः (महिषः) महान् (नाधमानस्य) प्रार्थयमानस्य (गातुः) मार्गः (अदब्धचक्षुः) अहिंसितदृष्टिः। सर्वदर्शी (विश्वम्) सर्वम् (परिबभूव) आच्छादितवान् (विश्वम्) (सम्पश्यन्) सर्वथावलोकयन् (सुविदत्रः) सुविदेः कत्रन्। उ० ३।१०८। सु+विद्लृ लाभे-कत्रन्। महालाभप्रापकः (यजत्रः) अमिनक्षियजि०। उ० ३।१०५। यजतेः-अत्रन्। सर्वपूजनीयः (इदम्) (शृणोतु) आकर्णयतु (यत्) (अहम्) (ब्रवीमि) कथयामि ॥