वांछित मन्त्र चुनें

चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः। आप्रा॒द्द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥

मन्त्र उच्चारण
पद पाठ

चित्रम् । देवानाम् । उत् । अगात् । अनीकम् । चक्षु: । मित्रस्य । वरुणस्य । अग्ने: । आ । अप्रात् । द्यावापृथिवी इति । अन्तरिक्षम् । सूर्य: । आत्मा । जगत: । तस्थुष: । च ॥२.३५॥

अथर्ववेद » काण्ड:13» सूक्त:2» पर्यायः:0» मन्त्र:35


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमात्मा और जीवात्मा के विषय का उपदेश।

पदार्थान्वयभाषाः - (देवानाम्) गतिमान् लोकों का (चित्रम्) अद्भुत (अनीकम्) जीवनदाता, (मित्रस्य) सूर्य [वा प्राण] का, (वरुणस्य) चन्द्रमा [अथवा जल वा अपान] का और (अग्नेः) बिजुली का (चक्षुः) दिखानेवाला [ब्रह्म] (उत्) सर्वोपरि (अगात्) व्यापा है। (सूर्यः) सर्वप्रेरक, (जगतः) जङ्गम (च) और (तस्थुषः) स्थावर संसार के (आत्मा) आत्मा [निरन्तर व्यापक परमात्मा] ने (द्यावापृथिवी) सूर्य भूमि [प्रकाशमान अप्रकाशमान लोकों] और (अन्तरिक्षम्) अन्तरिक्ष को (आ) सब प्रकार से (अप्रात्) पूर्ण किया है ॥३५॥
भावार्थभाषाः - जो अद्भुतस्वरूप परमात्मा सूर्य, चन्द्र, वायु आदि द्वारा सब प्राणियों को सुख देता है, मनुष्य उसको उपासना द्वारा जानकर आत्मोन्नति करें ॥३५॥यह मन्त्र कुछ भेद से ऋग्वेद में है−१।११५।१। यजुः० ७।४२। तथा १३।४३, और साम पू० ६।१४।३ ॥
टिप्पणी: ३५−(चित्रम्) अद्भुतस्वरूपम् (देवानाम्) गतिमतां लोकानाम् (उत्) सर्वोपरि (अगात्) व्यापत् (अनीकम्) म० ३४। जीवनप्रदम् (चक्षुः) दर्शकं ब्रह्म (मित्रस्य) सूर्यस्य प्राणस्य (वरुणस्य) चन्द्रस्य। जलस्य अपानस्य (अग्नेः) विद्युतः (आ) समन्तात् (अप्रात्) प्रा पूरणे-लङ्। पूरितवान् (द्यावापृथिवी) प्रकाशमानाप्रकाशमानलोकौ (अन्तरिक्षम्) (सूर्यः) सर्वप्रेरकः परमेश्वरः (आत्मा) अतति सततं गच्छति व्याप्नोतीति। अन्तर्यामी परमात्मा (जगतः) जङ्गमस्य (तस्थुषः) ष्ठा गतिनिवृत्तौ-क्वसु। स्थावरस्य (च) ॥