यो अ॒द्य दे॑व सूर्य॒ त्वां च॒ मां चा॑न्त॒राय॑ति। दुः॒ष्वप्न्यं॒ तस्मि॒ञ्छम॑लं दुरि॒तानि॑ च मृज्महे ॥
पद पाठ
य: । अद्य । देव । सूर्य त्वाम् । च । माम् । च । अन्तरा । अयति । दु:ऽस्वप्न्यम् । तस्मिन् । शमलम् । दु:ऽइतानि। च । मृज्महे ॥१.५८॥
अथर्ववेद » काण्ड:13» सूक्त:1» पर्यायः:0» मन्त्र:58
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
जीवात्मा और परमात्मा का उपदेश।
पदार्थान्वयभाषाः - (देव) हे प्रकाशमान ! (सूर्य) सूर्य [सूर्यसमान तेजस्वी विद्वान् !] (यः) जो कोई [शत्रु] (अद्य) आज (त्वाम्) तेरे (च च) और (माम् अन्तरा) मेरे बीच (अयति) चले। (तस्मिन्) उस विषय में [आये हुए] (दुःष्वप्न्यम्) बुरे स्वप्न, (शमलम्) मलिन व्यवहार (च) और (दुरितानि) दुर्गतियों को (मृज्महे) हम शुद्ध करते हैं ॥५८॥
भावार्थभाषाः - जो मनुष्य दुष्टता के कारण शुभ गुणों के प्रकाशों को रोके, विद्वान् लोग उन सब विघ्नों को हटाने के लिये प्रयत्न करें ॥५८॥
टिप्पणी: ५८−(यः) शत्रुः (अद्य) अस्मिन् दिने (देव) हे प्रकाशमान (सूर्य) आदित्यवत्तेजस्विन् विद्वन् (त्वाम्) (च) (माम्) (च) (अन्तरा) मध्ये (अयति) गच्छति (दुःष्वप्न्यम्) दुष्टस्वप्नम् (तस्मिन्) पूर्वोक्ते विषये (शमलम्) भ्रष्टव्यवहारम् (दुरितानि) कष्टानि (च) (मृज्महे) शोधयामः ॥
