यश्च॒ गां प॒दा स्फु॒रति॑ प्र॒त्यङ्सूर्यं॑ च॒ मेह॑ति। तस्य॑ वृश्चामि ते॒ मूलं॒ न च्छा॒यां क॑र॒वोऽप॑रम् ॥
पद पाठ
य: । च । गाम् । पदा । स्फुरति । प्रत्यङ् । सूर्यम् । च । मेहति। तस्य । वृश्चामि । ते । मूलम् । न । छायाम् । करव: । अपरम् ॥१.५६॥
अथर्ववेद » काण्ड:13» सूक्त:1» पर्यायः:0» मन्त्र:56
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
जीवात्मा और परमात्मा का उपदेश।
पदार्थान्वयभाषाः - (यः) जो कोई (प्रत्यङ्) प्रतिकूलगामी पुरुष (गाम्) वेदवाणी को (पदा) पग से [तिरस्कार के साथ] (स्फुरति) ठोकर मारता है, (च च) और (सूर्यम्) सूर्य [समान प्रतापी विद्वान् मनुष्य] को (मेहति=मेधति) सताता है। (तस्य ते) उस तेरी (मूलम्) जड़ को (वृश्चामि) मैं काटता हूँ, तू (छायाम्) छाया [अन्धकार वा अविद्या] को (अपरम्) फिर (न) न (करवः) फैलावे ॥५६॥
भावार्थभाषाः - जो मनुष्य सत्य वेदवाणी का तिरस्कार करके विद्वानों को कष्ट देवे, उस को लोग दण्ड देकर नाश करें ॥५६॥
टिप्पणी: ५६−(यः) दुराचारी (च) (गाम्) वेदवाचम् (पदा) पादेन। तिरस्कारेण (स्फुरति) संचालयति (प्रत्यङ्) प्रतिकूलगामी (सूर्यम्) सूर्यवत्तेजस्विनं विद्वांसम् (च) (मेहति) मिधृ मेधृ मेधाहिंसनयोः, धस्य हः। मेधति हिनस्ति (तस्य) दुष्टस्य (वृश्चामि) छिनद्मि (ते) तव (मूलम्) (न) निषेधे (छायाम्) माछाससिभ्यो यः। उ० ४।१०९। छो छेदने-य, टाप्। छ्यति प्रकाशमप्रकाशं वा। छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः-अमर० २३।२५७। अनातपम्। अन्धकारम्। अज्ञानम् (करवः) कॄ विक्षेपे लेट्, छन्दसि तनादित्वादु प्रत्ययः, गुणे च कृते, करु सिप्। लेटोऽडाटौ। पा० ३।४।९४। इत्यटि गुणे च कृते सकारस्य विसर्गे च जाते रूपसिद्धिः। विक्षिप। विस्तारय (अपरम्) पुनः ॥
