वांछित मन्त्र चुनें

गी॒र्भिरू॒र्ध्वान्क॑ल्पयि॒त्वा रोहि॑तो॒ भूमि॑मब्रवीत्। त्वयी॒दं सर्वं॑ जायतां॒ यद्भू॒तं यच्च॑ भा॒व्यम् ॥

मन्त्र उच्चारण
पद पाठ

गीऽभि: । ऊर्ध्वान् । कल्पयित्वा। रोहित: । भूमिम् । अब्रवीत् । त्वयि । इदम् । सर्वम् । जायताम् । यत् । भूतम् । यत् । च । भाव्यम् ॥१.५४॥

अथर्ववेद » काण्ड:13» सूक्त:1» पर्यायः:0» मन्त्र:54


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

जीवात्मा और परमात्मा का उपदेश।

पदार्थान्वयभाषाः - (गीर्भिः) वेदवाणियों द्वारा (ऊर्ध्वान्) ऊँचे-ऊँचे पहाड़ों को (कल्पयित्वा) रचकर (रोहितः) सबका उत्पन्न करनेवाला परमेश्वर (भूमिम्) भूमि से (अब्रवीत्) बोला−“(त्वयि) तुझ पर (इदम् सर्वम्) यह सब (जायताम्) उत्पन्न होवे, (यत्) जो कुछ (भूतम्) उत्पन्न है, (च) और (यत्) जो कुछ (भाव्यम्) उत्पन्न होनेवाला है ॥५४॥
भावार्थभाषाः - परमेश्वर ने अपने नित्य वेदज्ञान द्वारा सब पर्वत आदि बनाकर सृष्टि के निवास के लिये भूमि को बनाया ॥५४॥
टिप्पणी: ५४−(गीर्भिः) वेदवाग्भिः (ऊर्ध्वान्) उन्नतान् पर्वतान् (कल्पयित्वा) सृष्ट्वा (रोहितः) परमेश्वरः (भूमिम्) (अब्रवीत्) अवदत् (त्वयि) भूम्याम् (इदम्) प्रत्यक्षम् (सर्वम्) (जायताम्) उत्पद्यताम् (यत्) (भूतम्) उत्पन्नं वर्तते (यत्) (च) (भाव्यम्) भवतेर्ण्यत्। उत्पत्स्यमानम् ॥