वांछित मन्त्र चुनें

आ ते॑ रा॒ष्ट्रमि॒ह रोहि॑तोऽहार्षी॒द्व्यास्थ॒न्मृधो॒ अभ॑यं ते अभूत्। तस्मै॑ ते द्यावापृथि॒वी रे॒वती॑भिः॒ कामं॑ दुहाथामि॒ह शक्व॑रीभिः ॥

मन्त्र उच्चारण
पद पाठ

आ । ते । राष्ट्रम् । इह । रोहित: । अहार्षीत् । वि । आस्थत् । मृध: । अभयम् । ते । अभूत् । तस्मै । ते । द्यावापृथिवी इति । रेवतीभि: । कामम् । दुहाथाम् । इह । शक्वरीभि: ॥१.५॥

अथर्ववेद » काण्ड:13» सूक्त:1» पर्यायः:0» मन्त्र:5


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

जीवात्मा और परमात्मा का उपदेश।

पदार्थान्वयभाषाः - [हे मनुष्य !] (रोहितः) सबका उत्पन्न करनेवाला [परमेश्वर] (ते) तेरे (राष्ट्रम्) राज्य को (इह) यहाँ [संसार में] (आ अहार्षीत्) लाया है और उसने (मृधः) हिंसक [शत्रुओं] को (वि आस्थत्) गिरा दिया है, (ते) तेरे लिये (अभयम्) अभय (अभूत्) हो गया है। (तस्मै ते) उस तेरे लिये (द्यावापृथिवी) सूर्य्य और पृथिवी दोनों (रेवतीभिः) धनवाली (शक्वरीभिः) शक्तियों के साथ (कामम्) कामना को (इह) यहाँ [इस राज्य में] (दुहाथाम्=०−ताम्) पूरी करें ॥५॥
भावार्थभाषाः - जो मनुष्य ईश्वर की आज्ञा में तत्पर होकर राज्य चलाता है, उसको आध्यात्मिक, आधिभौतिक और आधिदैविक क्लेश नहीं होते ॥५॥
टिप्पणी: ५−(ते) तव (राष्ट्रम्) राज्यम् (इह) संसारे (रोहितः) म० १। सर्वोत्पादकः परमेश्वरः (आ अहार्षीत्) आनीतवान् (वि) पृथग्भावे (आस्थत्) असु क्षेपणे-लुङ्। क्षिप्तवान् (मृधः) मृधु उन्दने हिंसायां च-क्विप्। हिंसकान्। शत्रून् (अभयम्) भयराहित्यम् (ते) तुभ्यम् (अभूत्) (तस्मै) तथाभूताय (ते) तुभ्यम् (द्यावापृथिवी) सूर्य्यभूमी (रेवतीभिः) अ० ३।४।७। धनवतीभिः (कामम्) कामनाम् (दुहाथाम्) तकारस्य थः। दुहाताम्। पूरयताम् (इह) राज्ये (शक्वरीभिः) अ० ३।१३।७। शक्लृ शक्तौ-वनिप्। शक्तिभिः ॥