सूर्यो॒ द्यां सूर्यः॑ पृथि॒वीं सूर्य॒ आपोऽति॑ पश्यति। सूर्यो॑ भू॒तस्यैकं॒ चक्षु॒रा रु॑रोह॒ दिवं॑ म॒हीम् ॥
पद पाठ
सूर्य: । द्याम् । सूर्य: । पृथिवीम् । सूर्य: । आप: । अति । पश्यति । सूर्य: । भूतस्य । एकम् । चक्षु: । आ । रुरोह । दिवम् । महीम् ॥१.४५॥
अथर्ववेद » काण्ड:13» सूक्त:1» पर्यायः:0» मन्त्र:45
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
जीवात्मा और परमात्मा का उपदेश।
पदार्थान्वयभाषाः - (सूर्यः) सबका चलानेवाला [परमेश्वर] (द्याम्) प्रकाशमान सूर्य को, (सूर्यः) वह सर्वप्रेरक (पृथिवीम्) पृथिवी को, (सूर्यः) वह सर्वनियामक (आपः) प्रत्येक काम को (अति पश्यति) निहारता है। (सूर्यः) वह सर्वनियन्ता (भूतस्य) संसार का (एकम्) एक (चक्षुः) नेत्र [नेत्ररूप जगदीश्वर] (दिवम्) आकाश पर और (महीम्) पृथिवी पर (आ रुरोह) ऊँचा हुआ है ॥४५॥
भावार्थभाषाः - वह समदर्शी जगदीश्वर सब संसार और सब कामों को देखता हुआ सबको अपने नियम में रखता है ॥४५॥
टिप्पणी: ४५−(सूर्यः) सर्वप्रेरकः परमेश्वरः (द्याम्) प्रकाशमानं सूर्यम् (सूर्यः) सर्वनियामकः (पृथिवीम्) (सूर्यः) (आपः) आपः कर्माख्यायां ह्रस्वो नुट् च वा। उ० ४।२०।८। आप्लृ व्याप्तौ-असुन्। कर्म (अति पश्यति) अत्यर्थं विलोकयति (सूर्यः) (भूतस्य) संसारस्य (एकम्) अद्वितीयम् (चक्षुः) नेत्रं यथा (आ रुरोह) अधिष्ठितवान् (दिवम्) आकाशम् (महीम्) भूमिम् ॥
