वांछित मन्त्र चुनें

वि मि॑मीष्व॒ पय॑स्वतीं घृ॒ताचीं॑ दे॒वानां॑ धे॒नुरन॑पस्पृगे॒षा। इन्द्रः॒ सोमं॑ पिबतु॒ क्षेमो॑ अस्त्व॒ग्निः प्र स्तौ॑तु॒ वि मृधो॑ नुदस्व ॥

मन्त्र उच्चारण
पद पाठ

वि । मिमीष्व । पयस्वतीम् । घृताचीम् । देवानाम् । धेनु: । अनपऽस्पृक् । एषा । इन्द्र: ।सोमम् । पिबतु । क्षेम: । अस्तु । अग्नि: । प्र । स्तौतु । वि । मृध: । नुदस्व ॥१.२७॥

अथर्ववेद » काण्ड:13» सूक्त:1» पर्यायः:0» मन्त्र:27


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

जीवात्मा और परमात्मा का उपदेश।

पदार्थान्वयभाषाः - [हे विद्वान् !] (पयस्वतीम्) उत्तम अन्नवाली और (घृताचीम्) जल पहुँचानेवाली [प्रकृति] को (वि) विविध प्रकार (मिमीष्व) नाप, (एषा) वह (देवानाम्) विद्वानों की (अनपस्पृक्) न रोकनेवाली (धेनुः) तृप्ति करनेवाली [गौ के समान] है। (इन्द्रः) ऐश्वर्यवान् [यह मनुष्य] (सोमम्) अमृत (पिबतु) पान करे, (क्षेमः) सकुशल (अस्तु) होवे, और (अग्निः) ज्ञानवान् [यह पुरुष] (प्र स्तौतु) स्तुति करे, तू (मृधः) वैरियों को (वि नुदस्व) निकाल दे ॥२७॥
भावार्थभाषाः - जो मनुष्य सृष्टि के बीच खोज लगाते चले चलते हैं, वे निर्विघ्न होकर ऐश्वर्य प्राप्त करके सकुशल रहके और परमात्मा के गुण गाते हुए शत्रुओं का नाश करते हैं ॥२७॥
टिप्पणी: २७−(वि) विविधम् (मिमीष्व) माङ् माने शब्दे च। मानेन प्राप्नुहि (पयस्वतीम्) अन्नवतीम् (घृताचीम्) घृतं जलमञ्चयति प्रापयति या तां प्रकृतिम् (देवानाम्) विदुषाम् (धेनुः) अ० ३।१०।१। धि धारणे तर्पणे च-न। धेनुर्धवतेर्वा धिनोतेर्वा-निरु० ११।४२। तर्पयित्री (अनपस्पृक्) स्पृश स्पर्शने-क्विप्। अप्रतिबाधिका (एषा) प्रकृतिः (इन्द्रः) ऐश्वर्यवान् मनुष्यः (सोमम्) अमृतम्। मोक्षसुखम् (पिबतु) अनुभवतु (क्षेमः) सकुशलः (अस्तु) (अग्निः) विद्वान् पुरुषः (प्र) प्रकर्षेण (स्तौतु) प्रशंसतु (वि) पृथग्भावे (मृधः) हिंसकान् (नुदस्व) प्रेरय ॥