वांछित मन्त्र चुनें

अ॑वा॒स्तुमे॑न॒मस्व॑ग॒मप्र॑जसं करोत्यपरापर॒णो भ॑वति क्षी॒यते॑ ॥

मन्त्र उच्चारण
पद पाठ

अवास्तुम् । एनम् । अस्वगम् । अप्रजसम् । करोति । अपराऽपरण: । भवति । क्षीयते ॥९.७॥

अथर्ववेद » काण्ड:12» सूक्त:5» पर्यायः:0» मन्त्र:45


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

वेदवाणी रोकने के दोषों का उपदेश।

पदार्थान्वयभाषाः - वह [वेदवाणी] (एनम्) उस [क्षत्रिय] को (अवास्तुम्) विना घर का, (अस्वगम्) निर्धन और (अप्रजसम्) निर्वंशी (करोति) करती है, वह [मनुष्य] (अपरापरणः) प्राचीन और अर्वाचीन विना [पुराने और नवे पुरुष विना] (भवति) हो जाता है, और (क्षीयते) नाश को प्राप्त होता है ॥४५॥
भावार्थभाषाः - जो राजा विद्वान् ब्रह्मचारियों को सताकर वेदविद्या को रोकता है, वह अज्ञान बढ़ने से अपना सर्वस्व और वंश नाश करके आप भी नष्ट हो जाता है ॥४५, ४६॥ (अपरापरणः) के (अपरा−परणः) के पदपाठ के स्थान पर (अ+पर+अपर−नः) मानकर हम ने अर्थ किया है ॥
टिप्पणी: ४५, ४६−(अवास्तुम्) अगृहम् (एनम्) क्षत्रियम् (अस्वगम्) म० ४०। निर्धनम् (अप्रजसम्) अ० ९।२।३। अप्रजा−असिच्। असन्तानम् (करोति) (अपरापरणः) नञ्+पर+अपर−नः। लोमादिपामादि०। पा० ५।२।१००। इति बाहुलकाद् न प्रत्ययो मत्वर्थे। परं चापरं च द्वयोः समाहारः परापरम्, न तद्यस्यास्तीति अपरापरणः। प्राचीनार्वाचीनपुरुषरहितः (भवति) (क्षीयते) क्षियति। नश्यति (यः) (एवम्) अनेन प्रकारेण (विदुषः) जानतः (ब्राह्मणस्य) ब्रह्मचारिणः (क्षत्रियः) (गाम्) वेदवाणीम् (आदत्ते) गृह्णाति ॥