वांछित मन्त्र चुनें

पय॑श्च॒ रस॒श्चान्नं॑ चा॒न्नाद्यं॑ च॒र्तं च॑ स॒त्यं चे॒ष्टं च॑ पू॒र्तं च॑ प्र॒जा च॑ प॒शव॑श्च ॥

मन्त्र उच्चारण
पद पाठ

पय: । च । रस: । च । अन्नम् । च । अन्नऽअद्यम् । च । ऋतम् । च । सत्यम् । च । इष्टम् । च । पूर्तम्‌ । च । प्रऽजा । च । पशव: । च ॥६.४॥

अथर्ववेद » काण्ड:12» सूक्त:5» पर्यायः:0» मन्त्र:10


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

वेदवाणी रोकने के दोषों का उपदेश।

पदार्थान्वयभाषाः - (च) और (पयः) दूध, जल आदि, (च) और (रसः) रस [घृत, मधु, सोमरस आदि], (च) और (अन्नम्) अन्न [गेहूँ, जौ, चावल आदि], (च) और (अन्नाद्यम्) खाने योग्य पदार्थ [दाल, शाक, फल आदि], (च) और (ऋतम्) वेदज्ञान, (च) और (सत्यम्) सत्य [हृदय, वाणी और शरीर से यथार्थ कर्म] (च) और (इष्टम्) यज्ञ [अग्निहोत्र, वेदाध्ययन, अतिथिसत्कार आदि], (च) और (पूर्तम्) पूर्णता [सर्वोपकारी कर्म, कूप, तड़ाग, आराम, वाटिका, आदि], (च) और (प्रजाः) प्रजाएँ [सन्तान आदि और राज्य जन] (च) और (पशवः) सब पशु [हाथी, घोड़े, गौएँ आदि जीव] ॥१०॥
भावार्थभाषाः - जो राजा के कुप्रबन्ध से वेदविद्या प्रचार से रुक जाती है, अविद्या के फैलने से वह राजा और उसका राज्य सब नष्ट-भ्रष्ट हो जाता है ॥७-१०॥
टिप्पणी: १०−(पयः) दुग्धजलादिकम् (च) (रसः) घृतमधुसोमरसादिः−(च) (अन्नम्) कॄवृजॄसिद्रु०। उ० ३।१०। अन जीवने−न प्रत्ययः, नित्। जीवनसाधनम्। गोधूमयवव्रीह्यादिकम् (च) (अन्नाद्यम्) अन्न+अद भक्षणे−यत्। वाहिताग्न्यादिषु। पा० २।२।३७। इति रूपसिद्धिः। अत्तुं योग्यमद्यं च तदन्नं च सूपशाकफलादिकं भक्ष्यद्रव्यम् (च) (ऋतम्) वेदज्ञानम् (च) (सत्यम्) मानसिकवाचिककायिकयथार्थकर्म (च) (इष्टम्) अ० २।१२।४। अग्निहोत्रवेदाध्ययनाऽऽतिथ्यादि कर्म (च) (पूर्तम्) अ० २।१२।४। पॄ पालनपूरणयोः−क्त। सर्वोपकारी कर्म कूपतडागारामवाटिकादिकम् (च) (प्रजाः) सन्तानादयो राज्यजनाश्च (च) (पशवः) हस्तितुरगगवादयः (च) ॥