यो अ॑स्याः॒ कर्णा॑वास्कु॒नोत्या स दे॒वेषु॑ वृश्चते। लक्ष्म॑ कुर्व॒ इति॒ मन्य॑ते॒ कनी॑यः कृणुते॒ स्वम् ॥
पद पाठ
य: । अस्या: । कर्णौ । आऽस्कुनोति । आ । स: । देवेषु । वृश्चते । लक्ष्म । कुर्वे । इति । मन्यते । कनीय: । कृणुते । स्वम् ॥४.६॥
अथर्ववेद » काण्ड:12» सूक्त:4» पर्यायः:0» मन्त्र:6
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
वेदवाणी के प्रकाश करने के श्रेष्ठ गुणों का उपदेश।
पदार्थान्वयभाषाः - (यः) जो मनुष्य (अस्याः) इस [वेदवाणी] के (कर्णौ) दो विज्ञानों [अभ्युदय और निःश्रेयस अर्थात् तत्त्वज्ञान और मोक्षज्ञान] को (आस्कुनोति) ढक देता है, (सः) वह (देवेषु) स्तुतियोग्य गुणों में (आ) सब ओर से (वृश्चते) कतर जाता है।(लक्ष्म) प्रधान कर्म (कुर्वे) मैं करता हूँ−(इति) ऐसा [जो] (मन्यते) मानता है, वह [पुरुष] (स्वम्) अपना सर्वस्व (कनीयः) अधिक थोड़ा (कृणुते) करता है ॥६॥
भावार्थभाषाः - जो नास्तिक पाखण्डी मनुष्य वेदवाणी के तत्त्वज्ञान और मोक्षज्ञान को न मानकर आडम्बर रचता है, वह तुच्छ हो जाता है ॥६॥
टिप्पणी: ६−(यः) पुरुषः (अस्याः) वेदवाण्याः (कर्णौ) कॄवृजॄ०। उ० ३।१०। कॄ विक्षेपे हिंसने विज्ञाने च−न प्रत्ययो मित्। अभ्युदयनिःश्रेयसबोधौ (आस्कुनोति) स्कुञ् आप्रवणे आच्छादने। समन्तादाच्छादयति (आ) समन्तात् (सः) (देवेषु) स्तुत्यगुणेषु (वृश्चते) छिद्यते (लक्ष्म) लक्ष दर्शनाङ्कनयोः−मनिन्। प्रधानत्वम् (कुर्वे) करोमि (इति) (मन्यते) जानाति (कनीयः) अल्प−ईयसुन्। अल्पतरम् (कृणुते) करोति (स्वम्) सर्वस्वम् ॥
