वांछित मन्त्र चुनें
देवता: वशा ऋषि: कश्यपः छन्द: अनुष्टुप् स्वर: वशा गौ सूक्त

यो अ॑स्या॒ ऋच॑ उप॒श्रुत्याथ॒ गोष्वची॑चरत्। आयु॑श्च॒ तस्य॒ भूतिं॑ च दे॒वा वृ॑श्चन्ति हीडि॒ताः ॥

मन्त्र उच्चारण
पद पाठ

य: । अस्या: । ऋच: । उपऽश्रुत्य । अथ । गोषु । अचीचरत् । आयु: । च । तस्य । भूतिम् । च । देवा: । वृश्चन्ति । हीडिता: ॥४.२८॥

अथर्ववेद » काण्ड:12» सूक्त:4» पर्यायः:0» मन्त्र:28


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

वेदवाणी के प्रकाश करने के श्रेष्ठ गुणों का उपदेश।

पदार्थान्वयभाषाः - (अथ) यदि (यः) जिस [मनुष्य] ने (अस्याः) इस (ऋचः) स्तुतियोग्य वेदवाणी का (उपश्रुत्य) यथाविधि श्रवण करके (गोषु) इन्द्रियों में [इन्द्रियों के कुविषयों में अपने को] (अचीचरत्) चलाया है। (देवाः) देवता [विद्वान् लोग] (हीडिताः) क्रुद्ध होकर (तस्य) उस [पुरुष] का (आयुः) जीवन (च) और (भूतिम्) ऐश्वर्य (च) भी (वृश्चन्ति) काट देते हैं ॥२८॥
भावार्थभाषाः - जो विद्वान् वेदवाणी को जानकर कुविषयों में फँसता है, वह विद्वानों का क्रोधपात्र होकर संसार में उन्नति नहीं करता ॥२८॥
टिप्पणी: २८−(यः) पुरुषः (अस्याः) (ऋचः) स्तुत्याया वेदवाण्याः (उपश्रुत्य) यथाविधि श्रवणं कृत्वा (अथ) यदि (गोषु) इन्द्रियेषु। इन्द्रियाणां कुविषयेषु (अचीचरत्) चर गतिभक्षणयोः−णिच्, लुङ्। आत्मानं चालितवान् (आयुः) जीवनम् (च) (तस्य) पुरुषस्य (भूतिम्) ऐश्वर्यम् (च) अपि (देवाः) विद्वांसः (वृश्चन्ति) छिन्दन्ति (हीडिताः) हेडृ अनादरे क्रोधे च−क्त, ईकारश्छान्दसः। हेडते क्रुध्यतिकर्मा−निघ० २।१२। क्रुद्धाः सन्तः ॥