वांछित मन्त्र चुनें
देवता: वशा ऋषि: कश्यपः छन्द: अनुष्टुप् स्वर: वशा गौ सूक्त

य ए॑ना॒मव॑शा॒माह॑ दे॒वानां॒ निहि॑तं नि॒धिम्। उ॒भौ तस्मै॑ भवाश॒र्वौ प॑रि॒क्रम्येषु॑मस्यतः ॥

मन्त्र उच्चारण
पद पाठ

य: । एनाम् । अवशाम् । आह । देवानाम् । निऽहितम् । निऽधिम् । उभौ । तस्मै । भवाशर्वौ । परिऽक्रम्य । इषुम् । अस्यत: ॥४.१७॥

अथर्ववेद » काण्ड:12» सूक्त:4» पर्यायः:0» मन्त्र:17


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

वेदवाणी के प्रकाश करने के श्रेष्ठ गुणों का उपदेश।

पदार्थान्वयभाषाः - (यः) जो [मूर्ख] (देवानाम्) विजय चाहनेवालों के (निहितम्) नियम से रक्खे हुए (निधिम्) निधि, (एनाम्) इस [वेदवाणी] को (अवशाम्) नहीं कामनायोग्य [वा असमर्थ] (आह) बताता है। (तस्मै) उस [पुरुष] के लिये (उभौ) दोनों (भवाशर्वौ) भव [सुख देनेवाला प्राण] और शर्व [दोष मिटानेवाला अपान वायु] (परिक्रम्य) घूम-घूमकर (इषुम्) तीर [अर्थात् पीड़ा] (अस्यतः) फेंकते हैं ॥१७॥
भावार्थभाषाः - जो मनुष्य वेदवाणी के गुण न जानकर अपने आत्मा को दूषित करता है, श्वास-प्रश्वास की असावधानी से उसकी शारीरिक अवस्था भी बिगड़ जाती है ॥१७॥
टिप्पणी: १७−(यः) मूर्खः (एनाम्) वेदवाणीम् (अवशाम्) म० १। अकमनीयाम्। असमर्थाम् (आह) कथयति (देवानाम्) विजिगीषूणाम् (निहितम्) नियमेन स्थापितम् (निधिम्) धनकोशम् (उभौ) (तस्मै) मूर्खाय (भवाशर्वौ) अ० ८।२।७। सुखस्य भावयिता कर्ता भवः प्राणः, दुःखस्य शारिता नाशकः शर्वोऽपानवायुश्च तौ (परिक्रम्य) परितो गत्वा (इषुम्) बाणम्। पीडाम् (अस्यतः) क्षिपतः ॥