वांछित मन्त्र चुनें

प्राचीं॑प्राचीं प्र॒दिश॒मा र॑भेथामे॒तं लो॒कं श्र॒द्दधा॑नाः सचन्ते। यद्वां॑ प॒क्वं परि॑विष्टम॒ग्नौ तस्य॒ गुप्त॑ये दंपती॒ सं श्र॑येथाम् ॥

मन्त्र उच्चारण
पद पाठ

प्राचीम्ऽप्राचीम् । प्रऽदिशम् । आ । रभेथाम् । एतम् । लोकम् । अत्ऽदधाना: । सचन्ते । यत् । वाम् । पक्वम् । परिऽविष्टम् । अग्नौ । तस्य । गुप्तये । दंपती इति दम्ऽपती । सम् । श्रयेथाम् ॥३.७॥‍

अथर्ववेद » काण्ड:12» सूक्त:3» पर्यायः:0» मन्त्र:7


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परस्पर उन्नति करने का उपदेश।

पदार्थान्वयभाषाः - (प्राचींप्राचीम्) प्रत्येक आगेवाली (प्रदिशम्) बड़ी दिशा को (आ रभेथाम्) तुम दोनों आरम्भ करो, (एतम्) इस [आगे बढ़ानेवाले] (लोकम्) दर्शनीय पद को (श्रद्दधानाः) श्रद्धा रखनेवाले लोग (सचन्ते) सेवते हैं। (यत्) जो कुछ (वाम्) तुम दोनों का (पक्वम्) परिपक्व [दृढ़ ज्ञान] (अग्नौ) प्रकाशस्वरूप [परमात्मा] में (परिविष्टम्) प्रविष्ट है, (तस्य) उस [ज्ञान] की (गुप्तये) रक्षा के लिये, (दम्पती) हे पति-पत्नी ! (सं श्रयेथाम्) तुम दोनों मिलकर आश्रय लो ॥७॥
भावार्थभाषाः - जिस प्रकार परमात्मा में श्रद्धावाले पुरुष शुभ कामों में बढ़ते जाते हैं, उसी प्रकार विद्वान् पति-पत्नी उस जगदीश्वर में पूर्ण विश्वास करके परस्पर प्रीति से ज्ञान की रक्षा और वृद्धि करें ॥७॥ यह मन्त्र कुछ भेद से आ चुका है−अ० ६।१२२।३ ॥
टिप्पणी: ७−(प्राचींप्राचीम्) अ० ३।२७।१। प्रत्येकाभिमुखीभूताम् (प्रदिशम्) प्रकृष्टां दिशाम् (आ रभेथाम्) आरम्भं कुरुतम् (एतम्) (लोकम्) दर्शनीयं पदम् (श्रद्दधानाः) श्रद्धावन्तः (सचन्ते) सेवन्ते (यत्) ज्ञानम् (वाम्) युवयोः (पक्वम्) दृढं ज्ञानम् (परिविष्टम्) प्रविष्टम् (अग्नौ) ज्ञानस्वरूपे परमात्मनि (तस्य) ज्ञानस्य (गुप्तये) रक्षायै (दम्पती) हे भार्यापती (सम्) परस्परम् (श्रयेथाम्) सेवेथाम् ॥