ऊ॒र्ध्वायै॑ त्वा दि॒शे बृह॒स्पत॒येऽधि॑पतये श्वि॒त्राय॑ रक्षि॒त्रे व॒र्षायेषु॑मते। ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑। दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम ॥
ऊर्ध्वायै । त्वा । दिशे । बृहस्पतये । अधिऽपतये। श्वित्राय । रक्षित्रे । वर्षाय । इषुऽमते । एतम् । परि। दद्म: । तम् । न: । गोपायत । आ । अस्माकम् । आऽएतो: । दिष्टम् । न: । अत्र । जरसे । नि । नेषत् । जरा । मृत्यवे । परि । न: । ददातु । अथ । पक्वेन । सह । सम् । भवेम ॥३.६०॥
पण्डित क्षेमकरणदास त्रिवेदी
परस्पर उन्नति करने का उपदेश।
