वांछित मन्त्र चुनें

उ॒भे नभ॑सी उ॒भयां॑श्च लो॒कान्ये यज्व॑नाम॒भिजि॑ताः स्व॒र्गाः। तेषां॒ ज्योति॑ष्मा॒न्मधु॑मा॒न्यो अग्रे॒ तस्मि॑न्पु॒त्रैर्ज॒रसि॒ सं श्र॑येथाम् ॥

मन्त्र उच्चारण
पद पाठ

उभे इति । नभसी इति । उभयान् । च । लोकान् । ये । यज्वनाम् । अभिऽजिता: । स्व:ऽगा: । तेषाम् । ज्योतिष्मान् । मधुऽमान् । य: । अग्रे । तस्मिन् । पुत्रै: । जरसि । सम् । श्रयेथाम् ॥३.६॥

अथर्ववेद » काण्ड:12» सूक्त:3» पर्यायः:0» मन्त्र:6


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परस्पर उन्नति करने का उपदेश।

पदार्थान्वयभाषाः - (ये) जो [लोक] (यज्वनाम्) यज्ञ [श्रेष्ठ व्यवहार] करनेवालों के (अभिजिताः) सब ओर से जीते हुए और (स्वर्गाः) सुख पहुँचानेवाले हैं, (तेषाम्) उन [लोकों] के मध्य (यः) जो [परमेश्वर] (अग्रे) पहिले से (ज्योतिष्मान्) प्रकाशमय और (मधुमान्) ज्ञानमय है, (तस्मिन्) उस [परमेश्वर] में (वर्तमान) (उभे) दोनों (नभसी) सूर्य और पृथिवी [प्रकाशमान और अप्रकाशमान] लोकों को (च) और (उभयान्) दोनों [स्त्री-पुरुष] समूहवाले (लोकान्) लोकों [समाजों वा घरों] को (पुत्रैः) अपने पुत्रों [दुःख से बचानेवालों] के साथ (जरसि) स्तुति में रहकर (सं श्रयेथाम्) तुम दोनों [स्त्री-पुरुष] मिलकर सेवो ॥६॥
भावार्थभाषाः - स्त्री-पुरुषों को चाहिये कि विद्वानों के समान परमात्मा के रचे पदार्थों से यथावत् उपकार लेकर अपने विद्वान् धीर सन्तानों के साथ कीर्तिमान् होकर आनन्द पावें ॥६॥
टिप्पणी: ६−(उभे) द्वे (नभसी) द्यावापृथिव्यौ (उभयान्) स्त्रीपुरुषसमूहद्वययुक्तान् (च) (लोकान्) समाजान् गृहाणि वा (ये) लोकाः (यज्वनाम्) अ० ४।२१।२। यज−ङ्वनिप्। वेदविधानेन कृतधर्मणाम् (अभिजिताः) अभिप्राप्ताः (स्वर्गाः) सुखप्रापकाः (तेषाम्) लोकानां मध्ये (ज्योतिष्मान्) तेजोमयः (मधुमान्) विज्ञानमयः (यः) परमेश्वरः (अग्रे) आदौ (तस्मिन्) परमेश्वरे (पुत्रैः) म० ४। नरकात् त्रायकैः सह (जरसि) अ० १।३०।२। जॄ स्तुतौ−असुन्। स्तुतौ (संश्रयेथाम्) युवां परस्परं सेवेथाम् ॥