वांछित मन्त्र चुनें

ध्रु॒वायै॑ त्वा दि॒शे विष्ण॒वेऽधि॑पतये क॒ल्माष॑ग्रीवाय रक्षि॒त्र ओष॑धीभ्य॒ इषु॑मतीभ्यः। ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑। दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम ॥

मन्त्र उच्चारण
पद पाठ

ध्रुवायै । त्वा । दिशे । विष्णवे । अधिऽपतये । कल्माषऽग्रीवाय । रक्षित्रे । ओषधीभ्य: । इषुऽमतीभ्य: । एतम् । परि। दद्म: । तम् । न: । गोपायत ।आ । अस्माकम् । आऽएतो: । दिष्टम् । न: । अत्र । जरसे । नि । नेषत् । जरा । मृत्यवे । परि । न:। ददातु । अथ । पक्वेन । सह । सम् । भवेम ॥३.५९॥

अथर्ववेद » काण्ड:12» सूक्त:3» पर्यायः:0» मन्त्र:59


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परस्पर उन्नति करने का उपदेश।

पदार्थान्वयभाषाः - (ध्रुवायै दिशे) नीचेवाली दिशा में जाने के निमित्त (विष्णवे) सर्वव्यापक, (अधिपतये) अधिष्ठाता, (कल्माषग्रीवाय) हरित रंगवाले−[वृक्ष आदि] का ग्रीवावाले, [रक्षित्रे] रक्षक परमेश्वर को (इषुमतीभ्यः) बाणवाली [विषैली] (ओषधीभ्यः) ओषधियों के हटाने के लिये (एतम्) इस (त्वा) तुझे [जीवात्मा को] ..... [मन्त्र ५५] ॥५९॥
भावार्थभाषाः - मन्त्र ५५ देखो ॥५६॥
टिप्पणी: ५९−(ध्रुवायै दिशे) म० ५५। अधःस्थां दिशां गन्तुम् (विष्णवे) सर्वव्यापकाय (कल्माषग्रीवाय) कल्माषा हरितवर्णा वृक्षादयो ग्रीवावद् यस्य तस्मै (इषुमतीभ्यः ओषधीभ्यः) बाणवतीर्हिंसावतीर्वौषधीर्निवारयितुम्। अन्यत् पूर्ववत् ॥