वांछित मन्त्र चुनें

उदी॑च्यै त्वा दि॒शे सोमा॒याधि॑पतये स्व॒जाय॑ रक्षि॒त्रेऽशन्या॒ इषु॑मत्यै। ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑। दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम ॥

मन्त्र उच्चारण
पद पाठ

उदीच्यै । त्वा । दिशे । सोमाय । अधिऽपतये । स्वजाय । रक्षित्रे । अशन्यै । इषुऽमत्यै । एतम् । परि। दद्म: । तम् । न: । गोपायत ।आ । अस्माकम् । आऽएतो: । दिष्टम् । न: । अत्र । जरसे । नि । नेषत् । जरा । मृत्यवे । परि । न:। ददातु । अथ । पक्वेन । सह । सम् । भवेम ॥३.५८॥

अथर्ववेद » काण्ड:12» सूक्त:3» पर्यायः:0» मन्त्र:58


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परस्पर उन्नति करने का उपदेश।

पदार्थान्वयभाषाः - (उदीच्यै दिशे) उत्तर वा बाईं दिशा में जाने के निमित्त (सोमाय) सब जगत् के उत्पन्न करनेवाले (अधिपतये) अधिष्ठाता, (स्वजाय) अच्छे प्रकार अजन्मे [अथवा सब में चिपटे हुए] (रक्षित्रे) रक्षक परमेश्वर को (इषुमत्यै) तीरवाली [वा हिंसावाली] (अशन्यै) बिजुली हटाने के लिये (एतम्) इस (त्वा) तुझे [जीवात्मा को] .... [मन्त्र ५५] ॥५८॥
भावार्थभाषाः - मन्त्र ५५ देखो ॥५६॥
टिप्पणी: ५८−(उदीच्यै दिशे) म० ५५। उत्तरां वामभागस्थां वा दिशां गन्तुम् (सोमाय) सर्वजगदुत्पादकाय (स्वजाय) अ–० ३।२७।४। सुष्ठु अजन्मने। यद्वा, ष्वञ्ज सङ्गे−क। सर्वालिङ्गनशीलाय (इषुमत्यै अशन्यै) बाणवतीं हिंसावतीं वा विद्युतं निवारयितुम्। अन्यत् पूर्ववत् ॥