यद॒क्षेषु॒ वदा॒ यत्समि॑त्यां॒ यद्वा॒ वदा॒ अनृ॑तं वित्तका॒म्या। स॑मा॒नं तन्तु॑म॒भि सं॒वसा॑नौ॒ तस्मि॒न्त्सर्वं॒ शम॑लं सादयाथः ॥
पद पाठ
यत् । अक्षेषु । वदा: । यत् । सम्ऽइत्याम् । यत् । वा । वदा: । अनृतम् । वित्तऽकाम्या । समानम् । तन्तुम् । अभि। सम्ऽवसानौ । तस्मिन् । सर्वम् । शमलम् । सादयाथ:॥३.५२॥
अथर्ववेद » काण्ड:12» सूक्त:3» पर्यायः:0» मन्त्र:52
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
परस्पर उन्नति करने का उपदेश।
पदार्थान्वयभाषाः - [हे स्त्री वा पुरुष !] (यत्) जो कुछ [झूठ] (अक्षेषु) अभियोगों [राजगृह के विवादों] में, [अथवा] (यत्) जो कुछ [झूठ] (समित्याम्) संग्राम में (वदाः) तू बोले, (वा) अथवा (यत्) जो कुछ (अनृतम्) झूठ (वित्तकाम्या) धन की कामना से (वदाः) तू बोले। (समानम्) एक ही (तन्तुम् अभि) तन्तु [वस्त्र] में (संवसानौ) ढके हुए तुम दोनों [स्त्री-पुरुषो] (तस्मिन्) उस [झूठ] में (सर्वम्) सब (शमलम्) भ्रष्ट कर्म को (सादयाथः) स्थापित करोगे ॥५२॥
भावार्थभाषाः - सब स्त्री-पुरुषों को योग्य है कि एक-दूसरे को अपने सदृश समझ कर कठिन से कठिन आपत्ति में भी असत्य न बोलें, असत्य ही सब पापों का मूल है ॥५२॥
टिप्पणी: ५२−(यत्) असत्यम् (अक्षेषु) व्यवहारेषु। राजगृहविवादेषु (वदाः) लेट्। कथयेः (यत्) (समित्याम्) सङ्ग्रामे (यत्) (वा) अथवा (वदाः) (अनृतम्) असत्यम् (वित्तकाम्या) वसिवपियजि०। उ० ४।१२५। कमु कान्तौ−इञ्। धनकामनया (समानम्) तुल्यम् (तन्तुम्) सूत्रम्। वस्त्रमित्यर्थः (अभि) प्रति (संवसानौ) सम्यग् आच्छादितौ (तस्मिन्) अनृते (सर्वम्) संपूर्णम् (शमलम्) भ्रष्टकर्म (सादयाथः) लेट्। स्थापयिष्यथः ॥
