वांछित मन्त्र चुनें

आ॑दि॒त्येभ्यो॒ अङ्गि॑रोभ्यो॒ मध्वि॒दं घृ॒तेन॑ मि॒श्रं प्रति॑ वेदयामि। शु॒द्धह॑स्तौ ब्राह्मण॒स्यानि॑हत्यै॒तं स्व॒र्गं सु॑कृता॒वपी॑तम् ॥

मन्त्र उच्चारण
पद पाठ

आदित्येभ्य: । अङ्गिर:ऽभ्य: । मधु । इदम् । घृतेन । मिश्रम् । प्रति । वेदयामि । शुध्दऽहस्तौ । ब्राह्मणस्य । अनिऽहत्य । एतम् । स्व:ऽगम् । सुऽकृतौ । अपि । इतम् ॥३.४४॥

अथर्ववेद » काण्ड:12» सूक्त:3» पर्यायः:0» मन्त्र:44


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परस्पर उन्नति करने का उपदेश।

पदार्थान्वयभाषाः - (आदित्येभ्यः) अखण्ड ब्रह्मचारी (अङ्गिरोभ्यः) ऋषियों के लिये (घृतेन) सार [तत्त्वज्ञान] से (मिश्रम्) मिले हुए (इदम्) इस (मधु) विज्ञान [मधुविद्या] को (प्रति वेदयामि) मैं [ईश्वर] जताये देता हूँ [हे पति-पत्नी !] तुम दोनों (शुद्धहस्तौ) शुद्ध हाथोंवाले और (सुकृतौ) सुकर्मी होकर (ब्राह्मणस्य) वेद वा ब्रह्माण्ड के स्वामी [परमेश्वर] के (एतम्) इस (स्वर्गम्) सुख पहुँचानेवाले व्यवहार को (अनिहत्य) नष्ट न करके [सदा मानकर] (अपि इतम्) चलते चलो ॥४४॥
भावार्थभाषाः - परमेश्वर पूर्ण विदुषी स्त्रियों और पूर्ण विद्वान् पुरुषों को आज्ञा देता है कि वे सदा धर्मात्मा रहकर ईश्वर की आज्ञा मानें और उन्नति करते जावें ॥४४॥
टिप्पणी: ४४−(आदित्येभ्यः) म० ४३। अखण्डब्रह्मचारिभ्यः (अङ्गिरोभ्यः) म० ४३। ऋषिभ्यः (मधु) विज्ञानम् (इदम्) (घृतेन) सारेण। तत्त्वज्ञानेन (मिश्रम्) संयुक्तम् (प्रति) प्रत्यक्षम् (वेदयामि) विज्ञापयामि (शुद्धहस्तौ) पवित्रहस्तकर्माणौ (ब्राह्मणस्य) ब्रह्म−अण्। ब्रह्मणो वेदस्य ब्रह्माण्डस्य वा स्वामिनः परमेश्वरस्य (अनिहत्य) अनाशयित्वा (एतम्) (स्वर्गम्) सुखप्रापकं व्यवहारम् (सुकृतौ) धर्मकर्माणौ (अपि) अवधारणे (इतम्) गच्छतम् ॥