वांछित मन्त्र चुनें

नि॒धिं नि॑धि॒पा अ॒भ्येनमिच्छा॒दनी॑श्वरा अ॒भितः॑ सन्तु॒ ये॒न्ये। अ॒स्माभि॑र्द॒त्तो निहि॑तः स्व॒र्गस्त्रि॒भिः काण्डै॒स्त्रीन्त्स्व॒र्गान॑रुक्षत् ॥

मन्त्र उच्चारण
पद पाठ

निऽधिम् । निधिऽपा: । अभि । एनम् । इच्छात् । अनीश्वरा: । अभित: । सन्तु । ये । अन्ये । अस्माभि: । दत्त: । निऽहित: । स्व:ऽग: । त्रिऽभि: । काण्डै: । त्रीन् । स्व:ऽगान् । अरुक्षत् ॥३.४२॥

अथर्ववेद » काण्ड:12» सूक्त:3» पर्यायः:0» मन्त्र:42


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परस्पर उन्नति करने का उपदेश।

पदार्थान्वयभाषाः - (निधिपाः) निधियों का रक्षक [पुरुष] (एनम्) इस (निधिम्) निधि [अर्थात् मोक्ष] को (अभि इच्छात्) खोजे, (ये) जो (अन्ये) दूसरे [वेदविरोधी] हैं, वे (अभितः) सब ओर से (अनीश्वराः) बिना ऐश्वर्य (सन्तु) होवें। (अस्माभिः) हम [धर्मात्माओं] से (दत्तः) रक्षित, (निहितः) स्थापित (स्वर्गः) सुख पहुँचानेवाला [मनुष्य] (त्रिभिः) तीन [मानसिक, वाचिक और शारीरिक] (काण्डैः) कामनायोग्य कर्मों से (त्रीन्) तीन [आध्यात्मिक, आधिभौतिक और आधिदैविक] (स्वर्गान्) स्वर्गों [सुख पहुँचानेवाले व्यवहारों] को (अरुक्षत्) ऊँचा चढ़ा है ॥४२॥
भावार्थभाषाः - मनुष्य ईश्वरनियमों पर चलकर ऐश्वर्य पाते हैं, अधर्मी लोग नहीं पाते, पहिले भी मनुष्यों ने मन, वाणी, और शरीर के उत्तम उपयोगों से आध्यात्मिक आदि सुख पाये हैं ॥४२॥
टिप्पणी: ४२−(निधिम्) कोशम्। मोक्षमित्यर्थः (निधिपाः) कोशपालकः (एनम्) (अभि इच्छात्) अन्वेषणेन प्राप्नुयात् (अनीश्वराः) ईश ऐश्वर्ये−वरच्। अनैश्वर्यवन्तः (अभितः) सर्वतः (ये) (अन्ये) वेदविरोधिनः (अस्माभिः) विद्वद्भिः (दत्तः)−देङ् पालने−क्त। दाधा ध्वदाप्। पा० १।१।२०। इति घु संज्ञा। दो दद्घोः। पा० ७।४।४६। दद् इत्यादेशः। रक्षितः (निहितः) स्थापितः (स्वर्गः) सुखप्रापकः पुरुषः (त्रिभिः) मानसिकवाचिकशारीरिकैः (काण्डैः) क्वादिभ्यः कित्। उ० १।११५। कमु कान्तौ−ड। यद्वा, कण शब्दे−ड। अनुनासिकस्य क्विझलोः क्ङिति। पा० ६।४।१५। इति दीर्घः। कर्मनीयैः कर्मभिः (त्रीन्) आध्यात्मिकाधिभौतिकाधिदैविकान् (स्वर्गान्) सुखप्रापकान् व्यवहारान् (अरुक्षत्) अध्यतिष्ठत् ॥