वांछित मन्त्र चुनें

याव॑न्तो अ॒स्याः पृ॑थि॒वीं सच॑न्ते अ॒स्मत्पु॒त्राः परि॒ ये सं॑बभू॒वुः। सर्वां॒स्ताँ उप॒ पात्रे॑ ह्वयेथां॒ नाभिं॑ जाना॒नाः शिश॑वः स॒माया॑न् ॥

मन्त्र उच्चारण
पद पाठ

यावन्त: । अस्या: । पृथिवीम् । सचन्ते । अस्मत् । पुत्रा: । परि । ये । सम्ऽबभूवु: । सर्वान् । तान् । उप । पात्रे । ह्वयेथाम् । नाभिम् । जानाना: । शिशव: । सम्ऽआयान् ॥३.४०॥

अथर्ववेद » काण्ड:12» सूक्त:3» पर्यायः:0» मन्त्र:40


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परस्पर उन्नति करने का उपदेश।

पदार्थान्वयभाषाः - (अस्याः) इस [पत्नी] के (यावन्तः) जितने (पुत्राः) पुत्र (पृथिवीम्) पृथिवी को (सचन्ते) सेवते हैं, और (ये) जो [पुत्र] (अस्मत् परि) हम से पृथक् (संबभुवुः) उत्पन्न हुए हैं। (तान् सर्वान्) उन सब को (पात्रे) रक्षणीय व्यवहार में (उप ह्वयेथाम्) तुम दोनों निकट बुलाओ, (नाभिम्) बन्धुधर्म (जानानाः) जानते हुए (शिशवः) वे बालक (समायान्) मिलकर चलें ॥४०॥
भावार्थभाषाः - चाहे कोई सन्तान विवाहविधि से वा नियोगविधि से उत्पन्न हों, वे सब दाय भाग में यथावत् भाग पावें ॥४०॥
टिप्पणी: ४०−(यावन्तः) (अस्याः) जायायाः (पृथिवीम्) (सचन्ते) सेवन्ते (अस्मत्) अस्माकं सकाशात् (पुत्राः) (परि) पृथग् भूय (संबभूवुः) उत्पन्ना बभूवुः (सर्वान्) (तान्) (उप) समीपम् (पात्रे) रक्षणीये व्यवहारे (ह्वयेथाम्) आह्वयतं युवाम् (नाभिम्) बन्धुत्वम् (जानानाः) ज्ञा अवबोधने−चानश्। जानन्तः (शिशवः) बालकाः (समायान्) सम्+आङ्+या गतौ−लेट्। समागच्छन्ताम् ॥