यद्य॑ज्जा॒या पच॑ति॒ त्वत्परः॑परः॒ पति॑र्वा जाये॒ त्वत्ति॒रः। सं तत्सृ॑जेथां स॒ह वां॒ तद॑स्तु संपा॒दय॑न्तौ स॒ह लो॒कमेक॑म् ॥
पद पाठ
यत्ऽयत् । जाया । पचति । त्वत् । पर:ऽपर: । पति: । वा । जाये । त्वत् । तिर: । सम् । तत् । सृजेथाम् । सह । वाम् । तत् । अस्तु । सम्ऽपादयन्तौ । सह । लोकम् । एकम्॥३.३९॥
अथर्ववेद » काण्ड:12» सूक्त:3» पर्यायः:0» मन्त्र:39
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
परस्पर उन्नति करने का उपदेश।
पदार्थान्वयभाषाः - [हे पति !] (यद्यत्) जो कुछ [वस्तु] (जाया) पत्नी (त्वत्) तुझ से (परः परः) अलग-अलग (पचति) पकाती है, (वा) अथवा, (जाये) हे पत्नी ! (पतिः) पति (त्वत्) तुझ से (तिरः) गुप्त-गुप्त [कुछ पकाता है]। (एकम्) एक (लोकम्) घर को (सह) मिलकर (सम्पादयन्तौ) बनाते हुए तुम दोनों (तत्) उस [गृहकर्म] को (सं सृजेथाम्) मिलाओ, (तत्) वह (गृहकर्म) (वाम्) तुम दोनों का (सह) मिलकर (अस्तु) होवे ॥३९॥
भावार्थभाषाः - पति-पत्नी परस्पर विरोध न करें, सदा एकमत होकर ही प्रसन्नतापूर्वक गृहाश्रम पूरा करें ॥३९॥
टिप्पणी: ३९−(यद्यत्) यत्किंचित् (जाया) पत्नी (पचति) पक्वं करोति (त्वत्) तव सकाशात् (परः परः) पॄ पालनपूरणयोः−असुन्। दूरं दूरम् (पतिः) (वा) (जाये) हे पत्नि (त्वत्) (तिरः) अन्तर्धाने (तत्) गृहस्थकर्म (संसृजेथाम्) संयोजयतम् (सह) साहित्ये (वाम्) युवयोः (तत्) (अस्तु) (संपादयन्तौ) संसाधयन्तौ (सह) (लोकम्) गृहम् (एकम्) ॥
