उपा॑स्तरी॒रक॑रो लो॒कमे॒तमु॒रुः प्र॑थता॒मस॑मः स्व॒र्गः। तस्मि॑ञ्छ्रयातै महि॒षः सु॑प॒र्णो दे॒वा ए॑नं दे॒वता॑भ्यः॒ प्र य॑च्छान् ॥
पद पाठ
उप । अस्तरी: । अकर: । लोकम् । एतम् । उरु: । प्रथताम् । असम: । स्व:ऽग: । तस्मिन् । श्रयातै । महिष: । सुऽपर्ण: । देवा: । एनम् । देवताभ्य: । प्र । यच्छान् ॥३.३८॥
अथर्ववेद » काण्ड:12» सूक्त:3» पर्यायः:0» मन्त्र:38
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
परस्पर उन्नति करने का उपदेश।
पदार्थान्वयभाषाः - [हे विद्वान् !] तूने (एतम्) इस [पुरुष] को (उप अस्तरीः) बढ़ाया और (लोकम्) दर्शनीय (अकरः) बनाया है, (उरुः) विस्तृत (असमः) व्याकुलतारहित (स्वर्गः) सुख पहुँचानेवाला व्यवहार (प्रथताम्) बढ़े। (तस्मिन्) उस [सुखव्यवहार] में (महिषः) महान् (सुपर्णः) बड़ी पूर्तिवाला [वह पुरुष] (श्रयातै) आश्रय लेवे, (देवाः) विद्वान् लोग (एनम्) इस [सुखव्यवहार] को (देवताभ्यः) आनन्दों के लिये (प्र यच्छान्) देवें ॥३८॥
भावार्थभाषाः - विद्वानों का कर्तव्य है कि संसार में सुख के साधनों को फैलाकर सब को सुखी करके आप भी सुखी होवें ॥३८॥
टिप्पणी: ३८−(उप अस्तरीः) विस्तारितवानसि (अकरः) कृतवानसि (लोकम्) दर्शनीयम् (एतम्) पुरुषम् (उरुः) विस्तीर्णः (प्रथताम्) प्रख्यातो भवतु (असमः) षम वैकल्ये−अच्। वैकल्यरहितः (स्वर्गः) सुखप्रापको व्यवहारः (तस्मिन्) सुखव्यवहारे (श्रयातै) श्रिञ् सेवायाम्−लेट्। श्रयतु। सेवताम् (महिषः) अविमह्योष्टिषच्। उ० १।४५। मह पूजायाम्−टिषच्। महान्। पूजनीयः (सुपर्णः) पॄ पालनपूरणयोः−न। बहुपूर्तिमान् (देवाः) विद्वांसः (एनम्) सुखव्यवहारम् (देवताभ्यः) मोदानां प्राप्तये (प्र यच्छान्) लेटि रूपम्। प्र यच्छन्तु। ददतु ॥
