वांछित मन्त्र चुनें

ध॒र्ता ध्रि॑यस्व ध॒रुणे॑ पृथि॒व्या अच्यु॑तं॒ त्वा दे॒वता॑श्च्यावयन्तु। तं त्वा॒ दंप॑ती॒ जीव॑न्तौ जी॒वपु॑त्रा॒वुद्वा॑सयातः॒ पर्य॑ग्नि॒धाना॑त् ॥

मन्त्र उच्चारण
पद पाठ

धर्ता । ध्रियस्व । धरुणे । पृथिव्या: । अच्युतम् । त्वा । देवता: । च्यवयन्तु । तम् । त्वा । दंपती इति दम्ऽपती । जीवन्तौ । जीवऽपुत्रौ । उत् । वासयात: । परि । अग्निऽधानात् ॥३.३५॥

अथर्ववेद » काण्ड:12» सूक्त:3» पर्यायः:0» मन्त्र:35


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परस्पर उन्नति करने का उपदेश।

पदार्थान्वयभाषाः - [हे वीर !] तू (धर्ता) धर्ता [धारण करनेवाला] होकर (पृथिव्याः) पृथिवी के (धरुणे) धारण में (ध्रियस्व) दृढ़ रह, (अच्युतम् त्वा) तुझ निश्चल को (देवताः) देवता [विद्वान् लोग] (च्यवयन्तु) सहन करें। (तम् त्वा) उस तुझको (जीवन्तौ) जीवते हुए [पुरुषार्थी] (जीवपुत्रौ) जीवते [पुरुषार्थी] पुत्रोंवाले (दम्पती) दोनों पति-पत्नी (परि) सब ओर से (अग्निधानात्) ज्ञान के आधार [होने के कारण] से (उत्) उत्कर्षता से, (वासयातः) निवास करावें ॥३५॥
भावार्थभाषाः - जो विद्वान् पराक्रमी दृढ़स्वभाव पुरुष प्रजापालन में चतुर हो, विद्वान् लोग उसका आश्रय लेवें, और ऐसे पुत्र से माता-पिता पुत्रवान् होकर उसको उच्च बनावें ॥३५॥
टिप्पणी: ३५−(धर्ता) धारकः सन् (ध्रियस्व) धृतः स्थिरो भव (धरुणे) धारणे (पृथिव्याः) भूमिराज्यस्य (अच्युतम्) च्युङ् गतौ−क्त। निश्चलम् (त्वा) वीरम् (देवताः) विद्वांसः (च्यवयन्तु) च्यु हसने सहने च। सहन्ताम् (तम्) (तादृशम्) (त्वा) (दम्पती) जायापती (जीवन्तौ) प्राणान् धरन्तौ पुरुषार्थं कुर्वन्तौ (जीवपुत्रौ) जीविता पुरुषार्थयुक्ताः पुत्रा ययोस्तौ (उत्) उत्कर्षेण (वासयातः) लेट्। निवासयताम् (परि) सर्वतः (अग्निधानात्) ज्ञानधारणकारणात् ॥