वांछित मन्त्र चुनें

उद्यो॑धन्त्य॒भि व॑ल्गन्ति त॒प्ताः फेन॑मस्यन्ति बहु॒लांश्च॑ बि॒न्दून्। योषे॑व दृ॒ष्ट्वा पति॒मृत्वि॑यायै॒तैस्त॑ण्डु॒लैर्भ॑वता॒ समा॑पः ॥

मन्त्र उच्चारण
पद पाठ

उत् । योधन्ति । अभि । वल्गन्ति। तप्ता: । फेनम् । अस्यन्ति । बहुलान् । च । बिन्दून् । योषाऽइव । दृष्ट्वा । पतिम् । ऋत्विजाय । एतै: । तण्डुलै: । भवत । सम् । आप: ॥३.२९॥

अथर्ववेद » काण्ड:12» सूक्त:3» पर्यायः:0» मन्त्र:29


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परस्पर उन्नति करने का उपदेश।

पदार्थान्वयभाषाः - वे [जल] (तप्ताः) तप्त होकर (उत् योधन्ति) भिड़ जाते हैं, (अभि) सब ओर को (वल्गन्ति) फुदकते हैं, (फेनम्) फेन को (च) और (बहुलान्) बहुत से (बिन्दून्) बिन्दुओं को (अस्यन्ति) फेंकते हैं। (आपः) हे आप्त प्रजाओ ! (एतैः) इन (तण्डुलैः) चावलों [अन्न आदि] के साथ (सं भवत) तुम शक्तिमान् बनो, (इव) जैसे (योषा) सेवायोग्य पत्नी (ऋत्वियाय) ऋतु [गर्भधारणयोग्य काल] पाने के लिये (पतिम्) पति को (दृष्ट्वा) देखकर [शक्तिवाली होती है] ॥२९॥
भावार्थभाषाः - जैसे जल अग्नि के संयोग से खौलने लगता है, अथवा जैसे पत्नी ऋतुकाल में पति को प्राप्त होकर अभीष्ट सन्तान उत्पन्न करती है, वैसे ही सब पुरुषों को पुरुषार्थ के साथ अपना अभीष्ट सिद्ध करना चाहिये ॥२९॥
टिप्पणी: २९−(उद्योधन्ति) उत्कर्षेण संप्रहरन्ति (अभि) सर्वतः (वल्गन्ति) उत्प्लुत्य गच्छन्ति (तप्ताः) अग्निसंयुताः सत्यः। आपः−इति शेषः (फेनम्) फेनमीनौ। उ० ३।३। स्फायी वृद्धौ−नक्। बुद्बुदाकारं पदार्थम् (अस्यन्ति) क्षिपन्ति (बहुलान्) बहून् (च) (बिन्दून्) (योषा) सेवनीया पत्नी (इव) यथा (दृष्ट्वा) निरीक्ष्य (पतिम्) भर्तारम् (ऋत्वियाय) अ० ३।२०।१। छन्दसि घस्। पा० ५।१।१०६। ऋतु−घस्, इयादेशः। क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० २।३।१४। ऋतुं गर्भाधानयोग्यकालं प्राप्तुम् (एतैः) (तण्डुलैः) (संभवत) शक्तिमत्यो भवत (आपः) हे आप्ताः प्रजाः ॥