आ य॑न्ति दि॒वः पृ॑थि॒वीं स॑चन्ते॒ भूम्याः॑ सचन्ते॒ अध्य॒न्तरि॑क्षम्। शु॒द्धाः स॒तीस्ता उ॑ शुम्भन्त ए॒व ता नः॑ स्व॒र्गम॒भि लो॒कं न॑यन्तु ॥
आ । यन्ति । दिव: । पृथिवीम् । सचन्ते । भूम्या: । सचन्ते । अधि । अन्तरिक्षम् । शुध्दा: । सती: । ता: । ऊं इति । शुम्भन्ते । एव । ता: । न: । स्व:ऽगम् । अभि । लोकम् । नयन्तु ॥३..२६॥
पण्डित क्षेमकरणदास त्रिवेदी
परस्पर उन्नति करने का उपदेश।
