स्व॒र्गं लो॒कम॒भि नो॑ नयासि॒ सं जा॒यया॑ स॒ह पु॒त्रैः स्या॑म। गृ॒ह्णामि॒ हस्त॒मनु॒ मैत्वत्र॒ मा न॑स्तारी॒न्निरृ॑ति॒र्मो अरा॑तिः ॥
स्व:ऽगम् । लोकम् । अभि । न: । नयासि । सम् । जायया । सह । पुत्रै: । स्याम । गृह्णामि । हस्तम् । अनु । मा । आ । एतु । अत्र । मा । न: । तारीत् । नि:ऽऋति: । मो इति । अराति: ॥३.१७॥
पण्डित क्षेमकरणदास त्रिवेदी
परस्पर उन्नति करने का उपदेश।
