पि॒तेव॑ पु॒त्रान॒भि सं स्व॑जस्व नः शि॒वा नो॒ वाता॑ इ॒ह वा॑न्तु॒ भूमौ॑। यमो॑द॒नं पच॑तो दे॒वते॑ इ॒ह तं न॒स्तप॑ उ॒त स॒त्यं च॑ वेत्तु ॥
पिताऽइव । पुत्रान् । अभि । सम् । स्वजस्व । न: । शिवा:। न: । वाता: । इह । वान्तु । भूमौ । यम् । ओदनम. । पचत: । देवते इति । इह । तम् । न: । तप: । उत । सत्यम् । च । वेत्तु ॥३.१२॥
पण्डित क्षेमकरणदास त्रिवेदी
परस्पर उन्नति करने का उपदेश।
