वांछित मन्त्र चुनें

क्र॒व्याद॑म॒ग्निमि॑षि॒तो ह॑रामि॒ जना॑न्दृं॒हन्तं॒ वज्रे॑ण मृ॒त्युम्। नि तं शा॑स्मि॒ गार्ह॑पत्येन वि॒द्वान्पि॑तॄ॒णां लो॒केऽपि॑ भा॒गो अ॑स्तु ॥

मन्त्र उच्चारण
पद पाठ

क्रव्यऽअदम् । अग्निम् । इषित: । हरामि । जनान् । दृंहन्तम् । वज्रेण । मृत्युम् । नि । तम् । शास्मि । गार्हऽपत्येन । विद्वान् । पितॄणाम् । लोके । अपि । भाग: । अस्तु ॥२.९॥

अथर्ववेद » काण्ड:12» सूक्त:2» पर्यायः:0» मन्त्र:9


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (इषितः) [प्रजाओं का] भेजा हुआ मैं [राजा] (जनान्) मनुष्यों में (मृत्युम्) मृत्यु को (दृंहन्तम्) बढ़ाते हुए (क्रव्यादम्) मांसभक्षक (अग्निम्) अग्नि [समान सन्तापक मनुष्य] को (वज्रेण) [अपने] वज्र से (हरामि) नाश करता हूँ। (विद्वान्) विद्वान् मैं (तम्) उस [सत्कर्मी पुरुष] को (गार्हपत्येन) घर के स्वामियों से सम्बन्धी कर्म द्वारा (नि) निरन्तर (शास्मि) शिक्षा देता हूँ, [जिस पुरुष का] (भागः) भाग (पितॄणाम्) पितरों [रक्षक विद्वानों] के (लोके) समाज में (अपि) ही (अस्तु) होवे ॥९॥
भावार्थभाषाः - जिस राजा को प्रजागणों ने स्वीकार किया है, वह दुष्टों को नाश करके संसार के शुभचिन्तकों को धर्मकार्य में प्रवृत्त रक्खे ॥९॥
टिप्पणी: ९−(क्रव्यादम्) मांसभक्षकम् (अग्निम्) अग्निवत्सन्तापकं पुरुषम् (इषितः) प्रजाभिः प्रेषितो नियोजितः (हरामि) नाशयामि (जनान्) अकथितं च। पा० १।४।५१। इति कर्मसंज्ञा। जनेषु (दृंहन्तम्) वर्धयन्तम् (वज्रेण) शस्त्रेण (मृत्युम्) मरणम् (नि) नितराम् (तम्) सत्कर्माणम् (शास्मि) शिक्षयामि (गार्हपत्येन) अ० ६।१२०।१। गृहपति−ञ्य गृहपतिभिः संयुक्तेन संबद्धेन कर्मणा (विद्वान्) (पितॄणाम्) पालकानां विदुषाम् (लोके) समाजे (अपि) एव (भागः) सेवनीयोंऽशः (अस्तु) भवतु ॥