वांछित मन्त्र चुनें

अविः॑ कृ॒ष्णा भा॑ग॒धेयं॑ पशू॒नां सीसं॑ क्र॒व्यादपि॑ च॒न्द्रं त॑ आहुः। माषाः॑ पि॒ष्टा भा॑ग॒धेयं॑ ते ह॒व्यम॑रण्या॒न्या गह्व॑रं सचस्व ॥

मन्त्र उच्चारण
पद पाठ

अवि: । कृष्णा । भागऽधेयम् । पशूनाम् । सीसम् । क्रव्यऽअत् । अपि । चन्द्रम् । ते । आहु: । माषा: । पिष्टा: । भागऽधेयम‌् । ते । हव्यम् । अरण्यान्या: । गह्वरम् । सचस्व ॥२.५३॥

अथर्ववेद » काण्ड:12» सूक्त:2» पर्यायः:0» मन्त्र:53


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (कृष्णा) आकर्षण करनेवाली (अविः) रक्षिका प्रकृति [सृष्टि] (पशूनाम्) सब जीवों का (भागधेयम्) सेवनीय पदार्थ है। (क्रव्यात्) हे मांसभक्षक ! [पाप] (ते) तेरे (चन्द्रम्) सुवर्ण को (अपि) भी (सीसम्) सीसा [जस्ता आदि निकृष्ट धातु समान] (आहुः) वे [विद्वान् लोग] बताते हैं। [हे पाप !] (पिष्टाः) चूर्ण किये हुए (माषाः) वध व्यवहार [संग्राम आदि] (ते) तेरा (हव्यम्) ग्राह्य (भागधेयम्) भाग होता है, (अरण्यान्याः) बड़े वन की (गह्वरम्) गुहा का (सचस्व) सेवन कर ॥५३॥
भावार्थभाषाः - परमेश्वर ने सृष्टिनियम सब प्राणियों के लिये हितकारी बनाये हैं। उन से विरुद्धगामी पुरुष मृगतृष्णा में फँसकर परस्पर युद्ध में अपना जीवन निष्फल करते हैं। ऐसे दुष्ट पाप से सब मनुष्य पृथक् रहें ॥५३॥
टिप्पणी: ५३−(अविः) म० १९। रक्षिका प्रकृतिः। सृष्टिः (कृष्णा) आकर्षणशीला (भागधेयम्) भागः (पशूनाम्) व्यक्तवाचां वाव्यक्तवाचां च जीवानाम्−निरु० ११।२९। (सीसम्) निकृष्टधातुविशेषम् (क्रव्यात्) हे मांसभक्षक पाप (अपि) एव (चन्द्रम्) आह्लादकं सुवर्णम् (ते) तव (आहुः) कथयन्ति विद्वांसः (माषाः) मष वधे−घञ्। वधव्यवहाराः। संग्रामादयः (पिष्टाः) चूर्णिताः (भागधेयम्) भागः (ते) तव (हव्यम्) ग्राह्यम् (अरण्यान्याः) इन्द्रवरुणभवशर्व०। पा० ४।१।४९। अरण्य−ङीप्, आनुक्। महारण्यस्य (गह्वरम्) गुहाम् (सचस्व) षच सम्बन्धे−संबधान। सेवस्व ॥