वांछित मन्त्र चुनें

यद्य॒ग्निः क्र॒व्याद्यदि॒ वा व्या॒घ्र इ॒मं गो॒ष्ठं प्र॑वि॒वेशान्यो॑काः। तं माषा॑ज्यं कृ॒त्वा प्र हि॑णोमि दू॒रं स ग॑च्छत्वप्सु॒षदोऽप्य॒ग्नीन् ॥

मन्त्र उच्चारण
पद पाठ

यदि। अग्नि: । क्रव्यऽअत् । यदि । वा । व्याघ्र: । इमम् । गोऽस्थम् । प्रऽविवेश । अनिऽओका: । तम् । माषऽआज्यम् । कृत्वा । प्र । हिणोमि । दूरम् । स: । गच्छतु । अप्सुऽसद: । अपि । अग्नीन् ॥२.४॥

अथर्ववेद » काण्ड:12» सूक्त:2» पर्यायः:0» मन्त्र:4


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (यदि) यदि (क्रव्यात्) मांसभक्षक (अग्निः) अग्नि [समान सन्तापक], (यदि वा) अथवा यदि (अन्योकाः) अपनी माँद से निकले हुए (व्याघ्रः) बाघ [समान दुष्ट पुरुष] ने (इमम्) इस (गोष्ठम्) गोष्ठ [वार्तालाप स्थान] में (प्रविवेश) प्रवेश किया है। (तम्) उस [दुष्ट जन] को (माषाज्यम्) वध के साथ संयुक्त (कृत्वा) करके (दूरम्) दूर (प्र हिणोमि) भेजता हूँ, (सः) वह [दुष्ट] (अप्सुषदः) प्राणों में कष्ट देनेवाले (अग्नीन्) अग्नियों [अग्नि के सन्तापों] को (अपि) ही (गच्छतु) पावे ॥४॥
भावार्थभाषाः - जो दुराचारी छल-बल करके प्रजा के समाज, विद्यालय आदि उन्नतिस्थान में विघ्न डाले, उसको धार्मिक राजा दण्ड द्वारा अनेक सन्ताप देवे ॥४॥
टिप्पणी: ४−(यदि) सम्भावनायाम् (अग्निः) अग्निवत् सन्तापकः (क्रव्यात्) मांसभक्षकः क्रूरः पुरुषः (यदि) (वा) अथवा (व्याघ्रः) व्याघ्रवत् क्रूरः (इमम्) (गोष्ठम्) वाचनालयम् (प्रविवेश) (अन्योकाः) ओकसः स्वविलाद् बहिर्भूतः (तम्) (माषाज्यम्) मष वधे−घञ्+आ+अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु−क्यप्। वधेन हननेन सर्वतः संयुक्तम् (कृत्वा) विधाय (प्र हिणोमि) प्रेरयामि (दूरम्) (सः) (गच्छतु) प्राप्नोतु (अप्सुषदः) अप्सु+षद्लृ विषादे−क्विप्। प्राणेषु विषादयितॄन्। अप्सु=प्राणेषु−दयानन्दभाष्ये, यजुः० ८।२५। (अपि) एव (अग्नीन्) अग्निसन्तापान् ॥