ग्राह्या॑ गृ॒हाः सं सृ॑ज्यन्ते स्त्रि॒या यन्म्रि॒यते॒ पतिः॑। ब्र॒ह्मैव वि॒द्वाने॒ष्यो॒ यः क्र॒व्यादं॑ निरा॒दध॑त् ॥
पद पाठ
ग्राह्या: । गृहा: । सम् । सृज्यन्ते । स्त्रिया: । यत् । म्रियते । पति: । ब्रह्मा । एव । विद्वान् । एष्य: ।य: । क्रव्यऽअदम् । नि:ऽआदधत् ॥२.३९॥
अथर्ववेद » काण्ड:12» सूक्त:2» पर्यायः:0» मन्त्र:39
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - (गृहाः) घर (ग्राह्या) ग्राही [जकड़नेवाली शृङ्खला आदि बन्धन] से (संसृज्यन्ते) संयुक्त हो जाते हैं, (यत्) जब (स्त्रियाः) स्त्री का (पतिः) पति (म्रियते) प्राण छोड़ देता है [निरुद्यमी हो जाता है]। [इस लिये] (ब्रह्मा) ब्रह्मा [चारों वेदवेत्ता पुरुष] (एव) ही (विद्वान्) विद्वान् [पति] (एष्यः) खोजना चाहिये, (यः) जो (क्रव्यादम्) मांसभक्षक [दोष] को (निरादधत्) हटा देवे ॥३९॥
भावार्थभाषाः - विदुषी स्त्री के अविद्वान् निरुद्यमी पति होने से घर में विपत्ति आ जाती है, इसलिये स्त्री विदुषी होकर पूर्ण विद्वान् से विवाह करके आपत्ति से बच कर सदा सुखी रहे ॥३९॥
टिप्पणी: ३९−(ग्राह्या) अ० २।९।१। ग्रह आदाने−इञ्। ग्राहकेण बन्धनेन शृङ्खलादिना (गृहाः) गेहानि (संसृज्यन्ते) संयुज्यन्ते (स्त्रियाः) गृहपत्न्याः (यत्) यदा (म्रियते) प्राणांस्त्यजति। निरुद्यमी भवति (पतिः) स्वामी (ब्रह्मा) चतुर्वेदवेत्ता (एव) निश्चयेन (विद्वान्) (एष्यः) अन्वेषणीयः (यः) (क्रव्यादम्) मांसभक्षकं दोषम् (निरादधत्) दधातेर्लेट्। निस्सारयेत् ॥
