वांछित मन्त्र चुनें

इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं स्पृ॑शन्ताम्। अ॑न॒श्रवो॑ अनमी॒वाः सु॒रत्ना॒ आ रो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑ ॥

मन्त्र उच्चारण
पद पाठ

इमा: । नारी: । अविधवा: । सुऽपत्नी: । आऽअञ्जनेन । सर्पिषा । सम् । स्पृशन्ताम् । अनश्रव: । अनमीवा: । सुऽरत्ना: । आ । रोहन्तु । जनय: । योनिम् । अग्रे ॥२.३१॥

अथर्ववेद » काण्ड:12» सूक्त:2» पर्यायः:0» मन्त्र:31


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (इमाः) यह [विदुषी] (नारीः) नारियाँ (अविधवाः) सधवा [मनुष्योंवाली] और (सुपत्नीः) धार्मिक पतियोंवाली होकर (आञ्जनेन) यथावत् मेल से और (सर्पिषा) घी आदि [सार पदार्थ] से (सं स्पृशन्ताम्) संयुक्त रहें। (अनश्रवः) बिना आसुओंवाली, (अनमीवाः) बिना रोगोंवाली, (सुरत्नाः) सुन्दर-सुन्दर रत्नोंवाली (जनयः) माताएँ (अग्ने) आगे-आगे (योनिम्) मिलने के स्थान [घर, सभा आदि] में (आ रोहन्तु) चढ़ें ॥३१॥
भावार्थभाषाः - जो विदुषी स्त्रियाँ ब्रह्मचर्य आदि शुभ गुणवाली होती हैं, वे अपने विद्वान् सुयोग्य कुटुम्बियों, पतियों और पुत्र आदि के साथ शरीर और आत्मा से स्वस्थ रहकर बहुत धनवती और सुखवती होकर अग्रगामिनी बनती हैं ॥३१॥ यह मन्त्र आगे है−अ० १८।३।५७। और कुछ भेद से ऋग्वेद में है−१०।१८।७ ॥
टिप्पणी: ३१−(इमाः) विदुष्यः (नारीः) नार्यः (अविधवाः) धूञ् धुञ् वा कम्पने−पचाद्यच्, यद्वा, धावु गतिशुद्ध्योः−पचाद्यच्, ह्रस्वः पृषोदरादित्वात्। धवाः=मनुष्याः−निघ० २।३। विधवा विधातृका भवति विधवनाद्वा विधावनाद्वेति घर्मशिरा अपि वा धव इति मनुष्यनाम तद्वियोगाद् विधवा−निरु० ३।१५। सधवाः। समनुष्याः (सुपत्नीः) धार्मिकपतिकाः (आञ्जनेन) आङ्+अञ्जू म्रक्षणे−ल्युट्। समन्ताद् मेलनेन (सर्पिषा) धृतादिसारपदार्थेन (संस्पृशन्ताम्) संयुक्ता भवन्तु (अनश्रवः) अश्रुवर्जिताः। अरुदत्यः (अनमीवाः) अरोगाः। शारीरिकमानसिकदुःखवर्जिताः (सुरत्नाः) बहुमूल्यधनोपेताः (आ रोहन्तु) अधितिष्ठन्तु (जनयः) जनन्यः मातरः (योनिम्) मिश्रणस्थानम्। गृहम्। समाजम् (अग्रे) प्रधाने स्थाने ॥