अन्ये॑भ्यस्त्वा॒ पुरु॑षेभ्यो॒ गोभ्यो॒ अश्वे॑भ्यस्त्वा। निः क्र॒व्यादं॑ नुदामसि॒ यो अ॒ग्निर्जी॑वित॒योप॑नः ॥
पद पाठ
अन्येभ्य: । त्वा । पुरुषेभ्य: । गोभ्य: । अश्वेभ्य: । त्वा । नि: । क्रव्यऽअदम् । नुदामसि । य: । अग्नि: । जीवितऽयोपन: ॥२.१६॥
अथर्ववेद » काण्ड:12» सूक्त:2» पर्यायः:0» मन्त्र:16
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - (यः) जो (अग्निः) अग्नि [समान सन्तापकारी] (जीवितयोपनः) जीवन को व्याकुल करनेवाला पुरुष है, [उस] (क्रव्यादम्) मांसभक्षक (त्वा) तुझ को (अन्येभ्यः) जीते हुए (पुरुषेभ्यः) पुरुषों से और (त्वा) तुझ को (गोभ्यः) गौओं से और (अश्वेभ्यः) घोड़ों से (निः नुदामसि) हम निकाले देते हैं ॥१६॥
भावार्थभाषाः - सज्जन पुरुष दुःखदायी दुष्टों के निकालने में सदा प्रयत्न करें ॥१६॥
टिप्पणी: १६−(अन्येभ्यः) माछाशसिभ्यो यः। उ० ४।१०९। अन जीवने−यः। जीवद्भ्यः (त्वा) दुष्टम् (पुरुषेभ्यः) (गोभ्यः) (अश्वेभ्यः) (त्वा) (क्रव्यादम्) मांसभक्षकम् (निर्णुदामसि) निर्गमयामः (यः) (अग्निः) अग्निवत्सन्तापकः पुरुषः (जीवितयोपनः) जीवनविमोहकः ॥
