वांछित मन्त्र चुनें

न॒डमा रो॑ह॒ न ते॒ अत्र॑ लो॒क इ॒दं सीसं॑ भाग॒धेयं॑ त॒ एहि॑। यो गोषु॒ यक्ष्मः॒ पुरु॑षेषु॒ यक्ष्म॒स्तेन॒ त्वं सा॒कम॑ध॒राङ्परे॑हि ॥

मन्त्र उच्चारण
पद पाठ

नडम् । आ । रोह । न । ते । अत्र । लोक: । इदम् । सीसम् । भागऽधेयम् । ते । आ । इहि । य: । गोषु । यक्ष्म: । पुरुषेषु । यक्ष्म: । तेन । त्वम् । साकम् । अधराङ् । परा । इहि ॥२.१॥

अथर्ववेद » काण्ड:12» सूक्त:2» पर्यायः:0» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - [हे दुष्ट !] (नडम्) बन्धन [वा नरकट समान तीक्ष्ण शस्त्र] पर (आ रोह) चढ़ जा, (ते) तेरे लिये (अत्र) यहाँ (लोकः) स्थान (न) नहीं है, (इदम्) यह (सीसम्) [हमारा] बन्धननाशक विधान (ते) तेरा (भागधेयम्) सेवनीय कर्म है, (आ इहि) तू आ। (यः) जो (गोषु) गौओं में (यक्ष्मः) राजरोग और (पुरुषेषु) पुरुषों में (यक्ष्मः) राजरोग है, (तेन साकम्) उस के साथ (त्वम्) तू (अधराङ्) नीचे की ओर (परा इहि) चला जा ॥१॥
भावार्थभाषाः - राजा को उचित है कि दुराचारी दुष्टों को तीक्ष्ण शस्त्रों से कठिन दण्ड देकर नाश करे और नीचा दिखावे, जिस से प्रजा के पशुओं और पुरुषों में कोई क्लेश न होवे ॥१॥
टिप्पणी: १−(नडम्) अ० ४।१९।१। नल बन्धे−पचाद्यच्, लस्य डः। बन्धनम्। तीक्ष्णाग्रतृणविशेषसदृशतीक्ष्णशस्त्रम् (आरोह) आरूढो भव (नः) निषेधे (ते) तव (अत्र) प्रजाजने (लोकः) स्थानम् (इदम्) अस्मदीयम् (सीसम्) अ० १।१६।२। षिञ् बन्धने−क्विप्+षो नाशने−क, तुक्लोपे दीर्घः। बन्धननाशकं विधानम् (भागधेयम्) सेवनीयं कर्म (ते) तव (एहि) आगच्छ (गोषु) गवादिषु (यक्ष्मः) अ० २।१०।५। राजरोगः। क्षयः (पुरुषेषु) (यक्ष्मः) (तेन) रोगेण (त्वम्) दुराचारिन् (साकम्) सहितम् (अधराङ्) अ० ५।२२।२। नीचस्थानम् (परा) दूरे (इहि) गच्छ ॥