यार्ण॒वेऽधि॑ सलि॒लमग्र॒ आसी॒द्यां मा॒याभि॑र॒न्वच॑रन्मनी॒षिणः॑। यस्या॒ हृद॑यं पर॒मे व्योमन्त्स॒त्येनावृ॑तम॒मृतं॑ पृथि॒व्याः। सा नो॒ भूमि॒स्त्विषिं॒ बलं॑ रा॒ष्ट्रे द॑धातूत्त॒मे ॥
या । अर्णवे । अधि । सलिलम् । अग्ने । आसीत् । याम् । मायाभि: । अनुऽअचरन् । मनीषिण: । यस्या: । हृदयम् । परमे । विऽओमन् । सत्येन । आऽवृतम् । अमृतम् । पृथिव्या: । सा । न: । भूमि: । त्विषिम् । बलम् । राष्ट्रे । दधातु । उत्ऽतमे ॥१.८॥
पण्डित क्षेमकरणदास त्रिवेदी
राज्य की रक्षा का उपदेश।
