यां रक्ष॑न्त्यस्व॒प्ना वि॑श्व॒दानीं॑ दे॒वा भूमिं॑ पृथि॒वीमप्र॑मादम्। सा नो॒ मधु॑ प्रि॒यं दु॑हा॒मथो॑ उक्षतु॒ वर्च॑सा ॥
पद पाठ
याम् । रक्षन्ति । अस्वप्ना: । विश्वऽदानीम् । देवा: । भूमिम् । पृथिवीम् । अप्रऽमादम् । सा । न: । मधु । प्रियम् । दुहाम् । अथो इति । उक्षतु । वर्चसा ॥१.७॥
अथर्ववेद » काण्ड:12» सूक्त:1» पर्यायः:0» मन्त्र:7
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राज्य की रक्षा का उपदेश।
पदार्थान्वयभाषाः - (याम्) जिस (विश्वदानीम्) सब कुछ देनेवाली (भूमिम्) भूमि [आश्रय स्थान], (पृथिवीम्) पृथिवी [फैले हुए धरातल] को (अस्वप्नाः) बिना सोते हुए (देवाः) देवता [विजयी पुरुष] (अप्रमादम्) बिना चूक (रक्षन्ति) बचाते हैं। (सा) वह (नः) हमको (प्रियम्) प्रिय (मधु) मधु [मधुविद्या, पूर्ण विज्ञान] (दुहाम्) दुहा करे, (अथो) और भी (वर्चसा) तेज [बल पराक्रम] के साथ (उक्षतु) बढ़ावे ॥७॥
भावार्थभाषाः - जो मनुष्य निरालसी और अप्रमादी होकर भूमि की रक्षा करते हैं, वे इस पृथिवी पर विज्ञानी और तेजस्वी होते हैं ॥७॥
टिप्पणी: ७−(याम्) (रक्षन्ति) पान्ति (अस्वप्नाः) अनिद्राः। जागरूकाः। निरलसाः (विश्वदानीम्) अ० ७।७३।११। विश्वानि समग्राणि दानानि यस्यास्ताम् (देवाः) विजिगीषवः (भूमिम्) आधारभूताम् (पृथिवीम्) विस्तृतां वसुधाम् (अप्रमादम्) यथा तथा प्रमादराहित्येन (सा) पृथिवी (नः) अस्मभ्यम् (मधु) मधुविद्याम्। पूर्णविज्ञानम्। (प्रियम्) प्रीतिकरम् (दुहाम्) दुग्धाम्। पूरयतु (उक्षतु) सिञ्चतु। वर्धयतु। उक्षण उक्षतेर्वृद्धिकर्मणः−निरु० १२।९। (वर्चसा) तेजसा। बलेन। पराक्रमेण ॥
