वांछित मन्त्र चुनें

यद्वदा॑मि॒ मधु॑म॒त्तद्व॑दामि॒ यदीक्षे॒ तद्व॑नन्ति मा। त्विषी॑मानस्मि जूति॒मानवा॒न्यान्ह॑न्मि॒ दोध॑तः ॥

मन्त्र उच्चारण
पद पाठ

यत् । वदामि । मधुऽमत् । तत् । वदामि । यत् । ईक्षे । तत् । वनन्ति । मा । त्विषिऽमान् । अस्मि । जूतिऽमान् । अव । अन्यान् । हन्मि । दोधत: ॥१.५८॥

अथर्ववेद » काण्ड:12» सूक्त:1» पर्यायः:0» मन्त्र:58


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राज्य की रक्षा का उपदेश।

पदार्थान्वयभाषाः - (यत्) जो कुछ (वदामि) मैं बोलता हूँ, (तत्) वह (मधुमत्) उत्तम ज्ञान युक्त (वदामि) बोलता हूँ, (यत्) जो कुछ (ईक्षे) मैं देखता हूँ, (तत्) उसको (मा) मुझे (वनन्ति) वे [ईश्वरनियम] सेवते हैं। मैं (त्विषिमान्) तेजस्वी, (जूतिमान्) वेगवान् (अस्मि) हूँ, (दोधतः) क्रोधी (अन्यान्) दूसरे [शत्रुओं] को (अव हन्मि) मार गिराता हूँ ॥५८॥
भावार्थभाषाः - जो मनुष्य समझ-बूझकर बोलते, देखते और काम करते हैं, वे ईश्वरनियम से प्रतापी और फुरतीले होकर विघ्नों को मिटाते हैं ॥५८॥
टिप्पणी: ५८−(यत्) यत् किञ्चित् (वदामि) कथयामि (मधुमत्) श्रेष्ठज्ञानयुक्तम् (तत्) वचनम् (वदामि) (यत्) (ईक्षे) पश्यामि (तत्) (वनन्ति) संभजन्ति परमेश्वरनियमाः (मा) माम् (त्विषिमान्) दीप्तिमान् (अस्मि) (जूतिमान्) जु रंहसि−क्तिन्। वेगवान् (अन्यान्) शत्रून् (अव हन्मि) विनाशयामि (दोधतः) दोधतिः क्रुध्यतिकर्मा−निघ० २।१२, ततः शतृ। क्रुध्यतः ॥